________________
सोड्डलविरचिता धृतोऽप्युड्डीय गतवानिति हा घिने पापस्य पुरुषव्रतमवश्यमेतस्य पृष्ठानुलग्नस्तत्र यामि यत्रासौ व्रजति । यदि तावदिहैव वटशाखिन्यास्थितो धृतस्तदा धृत एव न चेदितोऽप्युत्पत्य यास्यति ततो नाम निरालम्बने व्योमनि वहनेव वासरमशेषं नेष्यति । तथाऽपि स्वप्रतिभासात्सङ्गतिरसाचारलोभात्परिश्रमादा कचिवस्थास्यति । तदित्थमविषण्णेन मनसा कृतानुबन्धे ग्रहीष्यामि निश्चितममुं विहङ्गसारमित्यवधार्य धावितस्तं प्रति पादपं न्यग्रोधम् । न च यावदेकस्य पदस्यान्तरेण तं तरुतिलकमासादयामि तावत्ततो झगिन्यसावुड्डीय नभसि वोढुमारब्धवान् । अहमपि वस्तुलोभाल्लवित्तविवेकस्तस्मिन्नेवाधाय दृष्टिमाविष्टेन चेतसा मार्गामार्गमगणयन्सवेगमत्रोपविशत्यत्रोपविशतीत्याशया प्रधावितुमुर्वीपथेन लग्नः । सोऽपि तथा व्रजन् कचिदुपविशत्येव न कचित् चरणस्पर्शमात्रमुपविशति कचिदुपविष्टमात्र एवोत्पतति, कचिन्मे निकटीभूतस्य सञ्चलनमाकलय्य चकितः पलायते, कचित्करसङ्गहं यावदागतोऽपि विच्यवत इत्येवममुना क्रमेण तेन पक्षिणा कर्थ्यमानस्य प्रधावतो मे झगित्येकत्र दुरन्तारण्ये गहने घनतरुशिखरशाखान्तरशतैरन्तर्यमाणः स खलु दृष्टेरगोचरो बभूव । अथाऽहं तथाप्याशया विडम्बितः सर्वतो विलोकयन्नग्रतो दृष्टामरुणकुसुमकलिकामपि तच्चञ्चुरिति सरभसमनुसरामि, हरितफलगुलिकामालोक्य तन्मौलिधिया धृतिं बध्नामि, प्रचलति विनीलतरुदलेपि तत्पक्षतिप्रतीतिमाचरामि, विकटार्कफलकोशदर्शनात्तदङ्गमेतदिति विकल्पयामि, झटित्युड्डीनान्यशकुनिपक्षपुटफटकारेण तस्योत्पतनमाशङ्कय चात्मानमनेकशो नटयामीत्येवमदृश्यमानेऽपि तस्मिन् सदृक्षदर्शनोतभ्रमेण धावन भूयसी भूमिमतिक्रान्तवान्।अनन्तरमन्ते च विपिनस्य प्रकाशमागतेषु ककुभां मुखेषु खण्डिताशो गतः स तावत्पत्री, तदितो वलामि पुनरग्रतो वा यामि, किमन्यमन्वेषणो. पायमासूत्रयामीति समुचितानुष्ठानमूढो मनायश्चितेन चेतसा समत्सरमितस्ततः सलवलन्नेकहेलयैव पुरस्तान्नातिदूरमविरलतरुसरलवेणिकान्तरितमनेकारावबहलं विहङ्गकोलाहलमशृणवम् । तदाकर्ण्य पुनरुन्मीलिताशो नन्विमामेतावती भूमिमतिश्रमार्तोऽपि व्रजामि । मा पुनरिह विहङ्गसङ्गतिरसादवस्थितोऽसौ भविष्यतीति सश्चिन्त्य सत्वरश्चलितो यावत्तां तरुश्रेणिमासादयामि तावने तेनैव पुलिनतलमिलितसकलजलशकुन्तकेलिकूजितरवेण निवे. द्यमानां गरिमगणनोपस्थितस्य प्रथमरेखामिव पश्चिमसमुद्रस्य, समुद्रमथनोत्थि. तस्य निस्सारसरणिमिवामृतरसस्य, सलिलसञ्चारसारणीमिव भारतक्षेत्रस्य,