________________
उदयसुन्दरी कथा |
२९
I
शशिकान्तधवलामाकृतिं चैत्यमानयन्नतिहरितया देहत्विषा सिक्त इव नीलीरसेन छुरित इव दलितेन्द्रनील धूलिभिश्च्छादित इवारविन्दिनीदलैर्नीलपक्षपटावगुण्ठितः सङ्केतवानिव शरलक्ष्मीमभितो हरितांशुकावरणो नीलपट इव मुख्यं रागमावहन् शरदागमकृतः करसंपुट इव भुवनश्रियो नीलमणिविनिर्मितः शुक्तिपुट इव रतेर्हसो विनोदयितुमागतः कृतापूर्वरूपो वेषकार इव शिरसि विस्फुरन्त्या विभूषितः शिखया शकुन्तराजस्य वज्रेण विरचिता चञ्चूरिति सङ्घर्षेण पद्मरागमणिसृष्टयेव पाटलया चञ्च्वा विराजमानो विजित्य “जलदागमाद्गृहीतं शरत्कालेन प्रदत्तमात्मीयं विजयवेषमाखण्डलं धनुरिवानेकवर्णधरं कण्डेन रेखावलयमादधानो गगनाध्वगमनसङ्घातवानितीव रविरथतुरङ्गकान्तिभिः कृतपक्षपरिग्रहः परितोऽपि मसृणघनपिच्छ सञ्चिताकृतिरभिरामदर्शनः शुको निर्जगाम । निर्गत्य च तस्यैव शिखरमारुरोह । तं तथा विलोक्य सपल्लवित कौतुकमहो क एष शुकः, कतमजातिरसौ, कोऽयमद्भुतरसानुबन्धी विलक्षणोऽस्य मूर्डन्युद्गमः शिखायाः, कथमेकखण्डेन्दुकान्त शिलानिर्माणतया नीरन्ध्रसन्धिगर्भेऽल चैत्ये प्रवेशनिर्गमावस्य । सा चेयमासीदन्तर्निविष्टस्यास्य प्रभानुभावान्नीलता चैत्ये । स्वहृदि भावितेन च प्रगल्भया गिरा गम्भीरसुभगमन्तःकरण एव निसृष्टार्थ पठितमपि नूनमनेनैव । यथा चैष तिर्यग्जातावप्येवमनुत्राससुस्थितः पतङ्गत्वेप्यलोललोचनः पठति च प्रागलभ्यवानेव शिखा चेयमाश्चर्यकारिणी शिरसि तथा नियतममुना केनाऽपि वस्तुभूतेन भाव्यम् । भविष्यति च महतो भूमिराश्चर्यस्य । तदसौ विधृत्य पार्श्वीकृतः परमविनोदार्थमुपकरणं भवितुमर्हत्येव निष्कण्टकीकृताशेबभूवलयनिराकुलस्य राज्ञः । किन्तु कथं मे करगोचरीभविष्यति येन त्रिभुवनेऽप्यदृष्टमश्रुतं च कौतुकर सैकपात्रममुं समर्प्य प्रसादयामि स्वामिनमिति मदीयचिन्तानन्तरमेवाऽसौ ततः शिखरादधो निरीक्ष्य झटिति दत्तझम्पस्तचैव मूलमणिपीठ कुट्टिमे समं धरिमविभ्रमं भ्रमितुमारेभे । तथा पर्यटन्नसौ सरभसमुद्भूताशेन ग्रहाय मया तस्य दृशोरविषयं प्रदेशमाश्रित्य निभृतमवनमितगात्रमलेक्षित पदद्मचारं च गत्वा झगित्येवोपरि त्वरितपातितेन पाणिना प्रियमाणो झटित्युड्डीनवानुड्डीय च पुरस्तात्क्रोशमात्रेण मार्ग एवोपविष्टो विसंकटस्य वटशाखिनः शिरसि । अथाऽहमुड्डीने तस्मिन्नुड्डीनचित्त इवाकुलो नितान्तमाः ! कथमिदं पक्षिरत्नमासादयिष्यामि । करग्रहमागतोऽपि पश्यत एवमेव पुरस्ताद्गतः शकुन्तोऽयमिदानीं किन्नाम स्वामिनो निवेदयामि किं