________________
सोडलविरचिता अन्तःश्वेतशिखाकणाङ्कितसटै रापाण्डुभिः केसरै
राकीर्णोन्नतकर्णिकं विकसति क्रीडातडागेऽम्बुजम् ॥ अपि च । वापीषु स्फुटितारविन्दविवरक्रोडे कडाराकृतिः
कोशः केसरशृङ्गशुभ्रकणिकाचक्रेण पर्यश्चितः । लक्ष्म्याः कर्णविभूषणस्य परितः प्रान्तेषु मुक्तामणि
श्रेणिस्वीकृतहेमपत्रवलयस्यालङ्कतेर्विभ्रमम् ॥ एवमन्यतोऽपि निभालितानेकनूतनोन्मिषितमुकुरकुसुमामुद्यच्चक्षुषो निपयित्रीमुद्यानसंपदमुश्चितप्रीतिः कृतकृत्य इवान्यत्र परिशिष्टे कर्मणि नियोज्य तं कर्मकराग्रण्यमानन्दितेन चेतसा ततो निर्गत्य समागन्तुमारब्धवानस्मि । अथ तथाऽहमेकाकी निश्चिन्ततया समन्थरमागच्छन्नेकत्र पुरपरिसरोपान्तप्रदेशे परुषपूषातपकदर्थितच्छायार्थी सौगतमवाप्य हृद्यमायतनं तस्मिन्बहिरेव द्वारमत्तवारणके समुपाविशम् । उपविश्य स्वस्थतामुपेतश्च किश्चित्सलीलमितस्ततः स्वतन्त्रालोकमक्रमेण देव! यावदने विलोकयामि तावज्झगित्यङ्गणकवर्ती यः प्रातरुद्यानं गच्छता मया स्फटिकसृष्टिपरिपाण्डुरो दृष्टस्तं तस्मिन्नवसरे चैत्यमिन्द्रनीलशिलानिर्मितमिवातिहरितवर्णमद्राक्षम् । दृष्ट्वा च सविस्मयमहो ! किमेतदद्भुतविजृम्भितमिदानीमेव मया स्फटिकशुक्लोऽयमागच्छता दृष्टः कथमियतैव क्षणे हरितमणिनिर्माणनीलतां प्रपन्नः । किमेतस्यैष समयवशादनेकवर्णधरः कोऽपि मणिदलविशेषः, किमन्योऽयं देवतानुभावसिद्धो मुहूर्तमात्रेणापसार्य शशिकान्तमयीं सृष्टिमिन्द्रनीलेन घटितः, किमेवंरूप एव स्वयंभूत्वेन समुच्छेद्य तं पुरातनं चैत्यमुत्थितो रसातलात् । किमेतडरितवनराजिनीलिमानुवासिता नीलमेव सकलमालोकते मदीया दृष्टिः, किं स प्रदेशोऽपि नायं यस्तेन स्फटिकवलेन शोभितश्चैत्येन, किमेकयाप्यथ देवतया प्रसर्पतः स्खलितमासाद्य परावर्तिते चक्षुषीत्यादि विकल्पयत्येव मय्यकस्मात्तस्मिन्ननुष्टुभां श्लोकमाश्रिता सरस्वती समुत्तस्थौ ।
अहो वैचित्र्यमेतस्य संसारस्य किमुच्यते ।
गुणोऽपि क्लेशहेतुः स्याद्विश्रान्तः कापि देहिनि ॥ श्रुत्वा च तामहमत्यद्रतावेशबहलितो ननु किमिदमचिन्त्यमाश्चर्यमिति यावत्किल' विभावयितुमारभे तावद्भारतीविरामानुपदमेव तस्य चैत्यय गर्भाज्झगिति वितर्कावकाशमपनयन्नमाननिगमनमार्गस्तां निजामेव