SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरी कथा । दिग्यात्रापस्थितासु प्रतिपथमभितो यस्य सेनासु मन्ये नो राज्ञामेव लक्ष्मीझटिति विघटिता वक्षसः शाहिणोऽपि । कामत्कुम्भीन्द्रचक्रक्रमनमितमहीगोलदोलायिताब्धि क्षुब्धोर्मिस्तोमफालप्रसरवशविपर्यस्तशय्योरगस्य ॥ अपि च । श्यामा समीकभुवि यस्य सुवृत्तमुष्टि मूलेन्दुरत्नफलकोपरि खङ्गयष्टिः । दृष्टा परैः प्रलयशङ्किभिरुल्लसन्ती __शीतांशुबिम्बविलयादिव धूमवर्तिः ॥ यस्य च निजावसरवर्त्तिनं नीराजनोपहारमातन्वतस्तत्कालमिलितसकलबलभरनमितमेदिनीपीठपृष्ठस्य कमठपतेर्वल्गदविरलविलोलवाजिविन्यस्तखुरनिष्ठुरखटत्कारनिबिडारवच्छलेन भज्यमानपृथुकटाहकर्परध्वनिरभूतपूर्वो भारतसमरसङ्घद्देऽपि विसङ्कटाभोगमुल्ललास । यस्य च समरसंहृतारातिकुलकुटुम्बिनीभ्यः कुङ्कमालेपमादाय शक्तिमान् पादलेपसिद्ध इव मनुष्यजनागोचरेषु सञ्चचार परितः प्रदेशेषु प्रतापः। यस्य च निकामवृद्धा वृद्धोचितं चरितमादृत्य त्रिपथगामिन्या गीर्वाणसरितः स्रोतसां त्रयेऽपि स्नातुमभिलषन्तीव बभ्राम भुवनत्रयं कीर्तिः । यस्य च महापङ्कमग्नाऽऽदिकूर्मपृष्ठावस्थानलग्नमम्भसा धारागतेन क्षालयितुमिवात्मनः पङ्कमावासिता कृपाणे काश्यपी । यस्य च स्वर्भानुभयस्थानं चन्द्रमसो मण्डलमपहाय तदनुकारहारिणि हारप्रभावलयमण्डलिते वक्षसि बभूव सुस्थिता लक्ष्मीः। किञ्च वक्षसि निवेश्य लक्ष्मीमुपरि च कविजीवितेन मुखकमले। विन्यस्यासनमुचितं गौरविता भारती येन ॥ ___ यः खलु निखिलनरपालचूडामणिश्चापलपरित्यागनिश्चयार्थमिव कृतको. शया प्रसादितो लक्ष्म्या, निजोचिताचरणव्यभिचारनिरासार्थमिवोत्क्षिप्तफलया प्रत्यायितः कीा, त्रिनयनविनाशितानङ्गसङ्गमनिवृत्त्यर्थमिव कृतशरीरस्पर्शी रूपेण, जलाधिपत्यपरिपालनार्थमिव गृहीतो वात्सल्येन, समरविषयाधिकारस्थिरीकारार्थमिव जनितदक्षिणकरग्रहो विजयेन, निसर्गानमनदुर्नयापनुत्तिप्रतीत्यर्थमिव स्पृष्टचरणः प्रणतारिपार्थिवशिरःश्रिया । यो हि तेजसामाश्रयो न सूर इव सहस्रशः करैर्मण्डलमुत्तापयामास, न शीतांशुरिवापरोदये वक्रता
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy