________________
उदयसुन्दरी कथा ।
१९
श्रयमनुज्ञातः समुत्थाय तस्माद्देवीभवनान्तर्मण्डपादङ्गणे बभूव । स्थित्वा तत्र यथा यत्समुचितमालोचसूत्रितं कृत्यं त्वरितं तथैव तदखिलमविरलरभसाश्चितश्चक्रे ।
स कविरथ यथावत्सूत्रितैकान्तरम्ये
सदसि वचनदेव्याश्चेतसा सुस्थितेन । अविशदसमसूक्त्या सेवितुं तौ द्विजाती निवसति हि समग्रा यत्र सारस्वतश्रीः ॥
इति कायस्थ विसोडूलविनिर्मितायामुदयसुन्दरीकथायां कविवंशनिवेदनो नाम सारस्वतश्रीपदाह्नः प्रथम उच्छ्रासकः ।