________________
उदयसुन्दरी कथा । मतिमतामग्रगण्य !मदीय एवैष कवितापरिश्रमो, मया हि महता मनःसंरम्भेण सृष्टः प्रबन्धोऽयमिदानी क नु किल श्रावयामि, कस्याग्रे स्वीयमभ्यस्यमानमिमं गुणोल्लेखं प्रतिपादयामि, को नाम समाकर्ण्य यथार्थवादितया सौजन्यं नाटयिष्यति, यस्मात्सकलगुणविचारचर्चाविपश्चितां धुरन्धरो धरेन्द्रभूषामणिः वत्सराजनामा नरेश्वरः परमं मित्रमिति मे पक्षीकृतो लोकैः, क्षितिभृतश्चान्ये सर्वेऽप्येकैकेन कटुरवोत्फुल्लगलनालिनाबुधव्याघेणाघातसन्निधयः सुदूरमुज्झिता गोजातिभिःगुणिनोऽपि स्वगुणाभिमानमहाभरग्रस्तानोच्छ्रसितुमपि पारयन्ति, लोकश्च परगुणोन्नतिमसहमानो नीचतां प्रपन्ना, नीचाश्च निसर्गद्वेषिणः परेषु । तथाहि
नीचजातिर्भवत्येव लोकस्थितिविरोधिनी।
अशिवाऽपि सती येयं ज्वालास्तुण्डेन मुञ्चति ॥ किञ्च
सूनागृहघटस्येव पिशुनस्य कुजन्मनः ।
आस्फालितमुखस्यापि भाङ्कारः केन वार्यते ॥ ये हि व्यासादिमहाकवीनामपि प्रबन्धेष्वपवदन्ति ते किं न मादृशामपवदिष्यन्ति । साधवो हि कलिकालतमःपटलपिहितेऽस्मिन् जगति क नाम दृश्यन्ते, तेनायमहो न केवलमिदानीमेव यावत्कमपि सुहृजनं सत्कविमर्थिनं च श्रोतारमासादयामि तावदेवमसौ बद्ध एवस्थास्यतीत्यादि स्वान्तःपरिपिण्डितमशेषमावेदयाश्चके । सोऽथ द्विजन्मा तालकः ससंभ्रममाः कविप्रवर ! त्वमेवमसज्जनात् त्रासविधुरो विषीदसि, मा विषीद ।
नो जीविकेयमिदमन्यगुणापहारकर्म प्रकामसुखदं व्यसनं खलस्य । आखोःसुवर्णमपहृत्य कृतं निवासरन्ध्र करोति किल कामिह देहवृत्तिम्॥ तथापि
कुर्वतः कविताम्भोधौ प्रबन्धेन विजृम्भणम् ।
कवेः प्रौढस्य कस्यास्ति जलमानुषतो भयम् ॥ साधुस्तु यदेवमभिलषितो द्रष्टुं तदप्युचितमेव स्तुतः ।
तापमुत्सारयन्नूनमातपत्रस्य सप्रभः।
तेनैष ध्रियते लोकैर्मस्तकोपरि सजनः॥ तदत्रैवं सोऽपि कर्मणा सुकृतेन तवानीतः समागतः साधुरतः किमद्याप्युचितश्रोतृजनानस्तित्वनिर्विण्णः खेदमावहसि ? । श्रावय प्रकाशय
३ उदय मु०