________________
१६
सोडलविरचिता देवि ब्राह्मि ! जयत्येष मन्त्रोष्मा संभृतस्तव । यदशेन कवीन्द्राणां वाचि पाकः प्रवर्तते ॥ जयन्ति त्वत्कराम्भोजे मकरन्दकणश्रियः ।
जाताः श्रव्यगिरो वाणि ! यत्सेवाभिरिवालयः॥ स्तुत्वा च पुनःपुनर्भालफलकाहतमहीतलं प्रणम्य निराकुलीभूतावागत्य द्वितीयं मत्तवारणकमध्यास्योपविष्टौ । अथाऽसौ तत्तथा तादृशमदृष्टपूर्व कुतू. हलातिशयमालोक्य यावत्तदभिमुखमसङ्ख्यविस्मयाक्षिप्तलोचनो वीक्षते तावदेकस्तयोः साधुजनाऽऽवर्जनोचितेन वचसा तं कविमालापयाञ्चक्रे पप्रच्छ च । सखे!क एष तल्पोपरिष्टात्पुस्तकः ?। किमिति बद्ध एवाऽऽस्ते ? । किं किल नोन्मुच्य वाच्यते ? । कथ्यताम् । किमिह प्रमाणशास्त्रोपाङ्गप्रकारः?। किमुत साहित्यभागः? । किमागमविशेषः? । किं पौराणिको भेदः ? । किमङ्ग! धनुर्वेदवैद्यकादिविद्याविभूतियोगेषु ग्रन्थेष्वन्यतमः कोऽपि? । किं वा कवेराधुनिकस्य कस्यापि काव्यकथानाटकादिकविताप्रपञ्चः कश्चित् ? इत्यादि बहुधा निबन्धसम्बन्धिनो वाङ्मयस्यान्तः किमेतदास्त इति प्रगल्भया गिरा तेनोक्ते कविरहो! आश्चर्य कथमसावनयोः शिलारूपयोर्मनुष्यभावः कथं चात्र दृषद्भावपूर्विकायामवस्थायामीहशीयमसंभाव्यविषया विशिष्टैवाक्षरकथाविकासिनी प्रौढिस्तकिमत्रोचितम् !। अथवा, भवतु पृच्छामि तावदिति विचिन्त्य भो द्विजकुलाभरण ! नियतमावेद्यते युष्माभिरापृष्टम् । किन्त्वन्तराल एव स्तोकमुच्यसे । मम हि महता विस्मयेन तरलितस्य सखे! पूरय कुतूहलम् । कथय कावतिविरूढमतिविशेषितालापशालिनौ युवां, प्रकृतिश्च नाम मुख्यतया भवतोरियं मानवी किमाद्या दृषपिणी, किमभिधानं युवयोः, कथं चायमेवं ग्रन्थनामग्रहानुमानसंसूचितःप्रबोधो वाङ्मयस्येति सादरं प्रत्यवोचत् । तेनापि सप्रश्रयमहो यथा दृष्टौ तथा भूतावेव भ्रातरावावामीदृश्येव सृष्टिरावयोः। अस्य हि महात्मनः तिलक इति नाम । तालकनामा चाहम् । यत्पुनरसावक्षरकथोपक्रमः तत्र किं न जानासि ये हि सुदूरवर्तिनोऽपि मनसैव देवी सरस्वती स्मरन्ति तेषामशेषशास्त्रावबोधनिर्मलं ज्ञानं कवित्वं च संपद्यते। सदैवासन्नसेवकयोः पुनरावयोरस्तु तावदन्यदेतावन्माकेऽपि सन्देहः, तदास्तां किमनेन मुधा प्रश्नपरिश्रमेण । यदुक्तस्तदेव ज्ञापय कौतुकादित्यभिहितस्तालकेन स खलु परिभाव्य चेतसि किमाश्चर्यं यथैतद्भणितमनेन इतरथैव किं न संभाव्यते, यस्माद्विविधकर्मपरिणामा हि संसारेऽस्मिनमी शरीरिणस्तदेतेन पृष्टं कथयामि, का नाम वस्तुक्षतिरिति विनिश्चित्य शृणु