________________
सोडलविरचिता अमिव प्रबलान्धकारपेटिकया बन्दिगृहीतं रोहणैकगोत्र शशिकान्तशिलाकूटमिवेन्द्रनीलसंहत्या दायाद्यविग्रहेणारब्धं शुचीभूय स्थितं दुग्धार्णवोर्मिस्तम्बमिव वाडवधूमश्रेण्याऽलभ्यायविधृतं स्फटिकसुभगं कैलासमिवाचनमहीध्रमेखलया गाढालिङ्गितं मथ्यमानाधिफेनपाण्डुरितं मन्दरमिव मुरारिभुजगावेष्टितं पिण्डिताकारपरिणतं हराहासराशिमिव दक्षिणमुखत्विषा मण्डलितमतिविशदसुधापिण्डपाण्डुरमविरलविनीलवनराजिमालया वलयितोपान्तं प्रासादमद्राक्षीत् । तदृष्ट्वा च सानुस्मरणमये ! सोऽयमरण्यवर्ती भगवतो भार्गवस्य सारस्वतः प्रासादः । तदिदानी कथमपश्यन्नपूजयन्नेव च देवीं व्रजामि । किन्त्वयमभ्यवहारकरणादतच्छङ्कीभूय गतो वासरः प्रहरमात्रावशिष्टश्च वर्तते, सन्निहितपश्चिमदिक्सङ्गमाशयेव देवस्यापि खरांशोरुत्तीर्णवानुत्तापस्तावदतोऽद्यतनमेनं वासरमिहैव गमयामि । प्रातरुषस्येव निर्झरजलामललपनपूर्वमपूर्वारण्यतरुलताकुसुमैरभ्यर्च्य भारती यास्यामीति संप्रधार्य झटित्येव चलितस्तस्याभिमुखमुत्क्षिप्तगतिक्रमो देशान्तं तावन्तमल्पान्तरालसुगम पन्थानमतिक्रम्य झगिति प्राप्तवान् । अथाग्रे तदङ्गणकवर्त्तिन्यामतिबहलबकुलकडोलतिलकतालीतमालवलयालङ्करणभाजि पुष्करिण्यां धौतचरणो निर्मलेन पयसा प्रक्षाल्य सततसञ्चारश्रमोदबिन्दुभिः कलुषितकपोलभालस्थलं वक्त्रमाचान्तशुचिजलपवित्रः प्रविश्य तस्मिन्नसमशिलाकर्मनिर्मिताभोगशोभिनि प्रशान्ताभ्यन्तरमनोहरे निर्जनतया च रहः श्रीसदसि प्रासादे प्रतिष्ठितां चतुर्मुखवदनचतुःशालाधिवासपरमेश्वरीमंशुधरचैतन्यरत्नोत्तेजनकुरुविन्दशक्तिं कविजनरसनाविमानगामिनीमखिलवाङ्मयस्वामिनी सरस्वतीमपश्यत् । आलोक्य च देवीं झगिति स्पृष्ट इव पङ्कजप्रकरैराश्लिष्ट इव चन्द्रिकया सिक्त इव चन्दनच्छटाभिः लपित इवामृतरसेन सततमधिकाधिकोद्भूतनिवृतिरानन्दितेन मनसा ननु संप्रति सर्वकालीनो वाक्यकुसुमोपहारः श्रेयानिति कृतश्रद्धानुबन्धमाबद्धकरकमलसंपुटमनुष्टुभा श्लोकयुगलेन स्तुतिमकरोत्।
वागीश्वरि ! जयन्त्येतास्तव ध्यानामृतोर्मयः । यजन्मा मानसक्षेत्रे बोधबीजाकरोदयः॥ जयन्ति तव भासिन्यो भारति ! ज्योतिषश्छटाः ।
स्फुरन्ति यत्र तत्रैव ज्ञानरत्नमयो निधिः ॥ इति कृतस्तुतिः क्षितितलमिलितालकेन शिरसा प्रणम्योत्थाय च सलीलमुपवनविभूतिदर्शनकुतूहलादितस्ततो गतेषु सहचारिष्वेकाकी विश्रमितु