________________
उदयसुन्दरी कथा । त्युचितानुष्ठानमूढोऽहमाचरामि । कलादित्योऽपि निजबुद्धीनामसाध्ये कार्यवस्तुनि किमेव किल मन्त्रयिष्यति । यत:उपायस्योल्लेखं कमपि न यदा पश्यति नर
स्तदानीं किन्नाम स्फुरति मतिपुळेऽपि कुरुते। सहस्रं पादानामपि रथमनालम्बपथगं
विना व्योमन्यकैश्चलतु यदि शक्नोति चलितुम् ॥
अथवा किमनेन प्रयोजनविनिश्चयाक्षमेण मुधैवमालोचविस्तरेण क्लेशयाम्यात्मानम् । येन देवताविशेषेण ममैतद्राज्यमागतमेतावती वृद्धिं पालकोऽपि तस्य तेनैव कश्चन विधिनिर्मितो व्यक्तिमवश्यमेष्यतीति मनसा संप्रधारयन्नेव निद्रां जगाम । अथ तथा निद्रोपभोगसुखमनुभवतः क्षितीन्द्रस्य परिगलति यामत्रये रजन्यास्तस्य शयनगृहस्यान्तरेकहेलयैव झगिति मणिनूपुरप्रस्तुतः सुन्दरो ध्वनिरुदभूत् । तेन च ध्वनिना झटित्यसावुड्डीननिद्रो विमुद्रयति चक्षुषी यावत् तावदने झगित्यमृतानुहारिणा दर्शनेनाऽऽप्यायितविलोचनां कान्तिबहलैरवयवैरेकभूतात्मकशिवतेजोमयं गात्रमुद्रहन्ती निर्मलस्य लावण्यवारिणस्तरता तरङ्गवलयेनेव स्वच्छांशुकेन जनितमतिमनोहरं नेपथ्यमादधानामविरलकुरलोपशोभिना भालेन तिमिरमूलोदितेन खण्डेन्दुना भासमानामधिदेवतामिव निशायाः कर्णयोभूषणमयेन विलासतामरसकर्णिकाद्वयेन सेव्यमानां सगोत्रामिव पाथसां साम्येन मुक्ताभरणस्य दायादामुदधिवेलायाः सादृश्येन वदनस्य सोदरामिन्दोरास्पदतया कान्तेः सजाति रत्नजातस्य कनकनूपुरयुगाद्धः प्रसर्पता युतिभरेण पिञ्जरितचरणां कपिशकिचल्कपांसुलेन सरोजवनावनेवागतां गौरतरेणाङ्गलावण्येन चन्द्रिकाभूतिधवले चन्द्रमसीव सुधासमुत्थितां मधुरया मूर्त्या दुग्धसिन्धाविव निष्पन्नामसामान्यदर्शनामचिन्त्यरूपवती योषितं ददर्श । सविस्मयातिरेकमालोक्य च तामपि येनाऽहमुडुडः स नूनमस्याश्चरणसञ्चारजन्मा नृपुरध्वनिः । भवतु पृच्छामि का पुनरसौ। न तावदहमनेन प्रसरता निरन्तरमेतदङ्गस्य तेजसा निरस्यमानदृष्टिः स्पृष्टभूतलेयमस्पृष्टभूतला वेति निर्णेतुं पारयामि । यदि वा द्वारपालाङ्गयामिकैरज्ञापितानामनुद्घाटितकवाटसंपुटे शयनसद्मनि प्रवेशोऽत्र मनुजसीमन्तिनीनां, न चामत्यजनोचितेनामुना कान्तिकलापेन मानुषीयमवश्यं दिव्यैव काचित् । दिव्यजनो हि सामान्योऽपि मान्यो मनुष्याणां किं पुनरविकारवता दृशोर्विभ्रमेजापनीतचापलं महनीयमिव दधाना स्वरूपमसावीहशीति निश्चित्य चेतसि
२ उदय