________________
सोडलविरचिता
माययौ राज्यम् । राज्यं हि न नाम निरमात्यमसूत्रधारं नाटकमिव पार्यते प्रवर्तयितुं यस्मादमात्यमुख्यः सकलोऽपि कलापः कार्याणाम् । स चास्माकममात्यः कनकायनो नाम निकाममीश्वरो मानितोऽपि कथञ्चन सार्द्धमधिकारनिरूपितैः स्वजातिभिरवसरे व्यभिचारमुपदर्शयामास । तदिह संप्रति कः किल वर्णचतुष्टयाद्विशुद्धश्चतसृभिरुपधाभिरुचितोऽधिकारेषु । द्विजन्मानो हि ब्रह्मतेजसो वन्दनीयाः पूज्या एव मन्त्रिपुरोहितपदे स्थापयितुमुचिता भवन्ति, नार्थचिन्ताधिकारेणात्मनः प्रहीयन्ते । तैजसी वृत्तिमपहाय पाशुपाल्यकृषिवाणिज्योपजीविनां च विशां हीनतया हृदयवृत्तेरिहावकाशोऽपि न श्रेयान् । शूद्रास्तु समयदर्शितेनामुना व्यभिचारेण च निवेदिता न तावहन्ति । अतः को नूनमवेक्षणीयगुणक्षेत्रं क्षत्रियादपरः सम्प्राप्यते । स तु स्वधर्माधीनपुरुषव्रतः सहजस्य तेजसः पात्रं, न खलु मनुष्यजन्मना मादृशेनान्यत्र कर्मणि पार्यते प्रवर्त्तयितुम् । को नाम भगवन्तमम्बरतलावगामिनं मरीचिमालिनमवनिपथेन प्रचारयितुमलं, कस्यास्ति शक्तिरू मुल्लासिनमनलशिखाकलापमधोमुखं प्रवर्त्तयितुं, केन च शक्यते तडिद्दण्डस्य विस्फुरणलाघवं मन्दतां नेतुम् । अथास्ति श्रूयते च क्षत्रियाणां प्रवृत्तिरधिकारेषु । यदा हि पितृवधामर्षरोषितो भार्गवः समग्रमेव राजन्यकमकुण्ठतरसारधारोपदर्शितानलसमुच्छलद्विस्फुलिङ्गदलभासुरेण परशुना सर्वतस्त्रुटितकण्ठपीठीकमारब्धवान् कत्तुं तदा तेन कियताऽपि क्षत्रियजनेन कियत्कालमात्मनो रक्षार्थ क्षात्रमपहाय पन्थानं वृत्तिरियमादृता नियोगस्य । यद्यप्येवं तथाऽपि चान्यपार्थिवकुलपुत्रको न कचित्कश्चिदात्मनः श्रियमधिप्रवेशयितुं विश्रम्भविषयीकृतो भीत्या। तथा च दिनेन्दुरादित्यस्य धामन्यन्तरनुप्रविष्टो झटित्यवसरमवाप्य मिलितया रजनिसामग्र्या तमपि प्रतापवन्तमिनं समुच्छेद्य स्वयमशेषं भुवनमाक्रान्तवान् । अस्मत्कुले तु न कश्चित्तथाविधो बुद्धिमानस्ति यः किल संवर्गयन्नशेषतः स्वामिनो बन्धून् गोत्रभिदो मन्त्रिणं धिषणमपि दुर्बुद्धिं मन्यते, नन्दयन्ननेकशः कोविदकुलानि विबुधविद्विषामनुगतं शुक्रमपि मूर्ख गणयति, मिलत्कोटिशोरथवरूथिनीदशरथमेव स्वामिनं कुर्वाणं वसिष्ठमप्यल्प. धियं कल्पयति, जगतोऽपि बन्धुतया व्यवहरन् विश्वामित्रं रामस्याप्यमात्यमसत्पक्षे कलयति, येन तस्मिन्नसमलक्ष्मीविकासविस्फुरितकीर्तिबले राज्यभारमारोप्य निराकुलो विलासदर्शितानि मुखान्यनुशीलयाम्येवं च किमिह संप्र