________________
सोडविरचिता
किमेभिरहितप्रभेदविघटितैरसाधुभिः सहायैरेष चेज्जलैरभेदितोऽस्ति मदीयो बाहुरवश्यं मन्दरमहीध्र इव लक्ष्मीं पयोधिमध्यमग्नामप्युद्धरिष्यति ।
तथाहि
६
श्रीः स्वयं चापटङ्कारस्वनव्याहारधाविता । सेनेवागत्य धीराणां दोर्दण्डमधिरोहति ॥
अपि च
लक्ष्मीपारावत्या वसतिकृते पाणिपञ्जरप्रवरः । विहितः स एव विधिना सुभटानामिह भुजस्तम्भः ॥
तदेष चिराद्भवतु मे संप्रति कृपाणप्रणयी पाणिरित्यसिदण्डमादातुकामं राजानमालोक्य कलादित्यः सादरमवादीत् । ननु जगत्रयाक्रमणकर्मठोरुविक्रमः किमित्येवमेतावत्यणीयसि रिपावार्यः स्वयमेनं कृपाणमादत्ते । किं नाम विस्मृतः स्वामी ? | देव ! क्षत्रियादुत्पन्नः स्नेहेनोपलालितः पालितश्च कोशेन मध्यगतो मुष्टेरनिष्टनरनिग्रहोपकरणमहं ते मण्डलाग्रः । तदादिश क्षणादवश्यमद्यैव त्वदीयेन तेजसा दलितदर्पान्धतमसं धर्मपालमवनौ विनतिलुलितकायं त्वच्चरणतलवर्तिनो लक्ष्मरेखामयस्य चक्रस्याक्षदण्डं करोमीति सानुबन्धमभिधाय बलादनिच्छतोऽप्यग्रजस्य गृहीतभण्डनारम्भपरिकरः स्वीकृत्य सकलमलिकुटुम्बडम्बरितगण्डफलकमुड्डामरं मत्तकारिवरूथिनीवृन्दमुदग्रवेगं स्वीयं सैन्यमनिन्द्यं च सामन्तचक्रमेकहेलयेव विश्वमास्फालिताजितूर्यनिर्धोनिर्भरं कुर्वन् प्रणम्याग्रजं निर्जगाम । झगिति चाग्रे स्वयमवष्टभ्य सुभटसन्दोहदुर्गमं दुर्गमकरोदनन्तनरहरिकरीन्द्रसंहारदारुणं महारणम् । तथाहि — निर्लूनं सुभटस्य कङ्कणमणिश्रेणीशिखाडम्बरो— प्रप्रान्तमुदस्य दस्युपतगत्रासेन गृध्रो भुजम् । यस्मिन्नस्तमुपागतैर्नृपतिभिस्तत्कालमूर्ध्व जग
1
गच्छद्भिः सह दीपवर्त्तक इव व्योमान्धकारे ययौ ॥
किं बहुना ।
तामासाद्य सुदूरमस्त्र पतनप्रक्षुण्णवीरत्रुट
तूर्यद्वारकपालजङ्गल चयच्छन्नामनीकक्षितिम् । जातं गृध्रगणोज्झितं द्रुमकुलं भल्लूकशून्यं वनं निष्कापालिक मम्बिकागृहमपप्रेतं च लङ्कापुरम् ॥