________________
उदयसुन्दरीकथा । मेदिनीम्, निष्घर्षभीषणया दन्नपरिषदा गिलन्निव जगन्ति, यावकरसानुकारिणीभिः कपोलकान्तिभिर्वर्षन्निव रिष्टरुधिरधाराभिरनिष्टदर्शनो निद्रान्तसमुत्थितः स खलु सहसैव दूरात्तारावल्याऽभिनन्द्यमानं स्वीकृतोदयसुन्दरीकमुर्वीपतिं विलोक्य निकामकुपितः प्रधावितो जवादाजगाम कुतोऽपि सम्भृतबलो गोलाङ्गलः सामर्षो दृप्तश्च प्रावर्त्तत भुजाक्षेपे क्षितीश्वरस्य ॥
. अत्रान्तरे च हा हा हताऽस्मि दुरात्मना दैवेन येन जानन्त्याऽपि मया मन्मथशरव्याघातमूर्च्छितया तिष्ठन्नपि न स्मृतः, चिरादिष्टजनसङ्गमोत्सवरसेन मत्तया स्वपन्नपि न परामृष्टः, सुदूरमारूढिमता रागेणान्धया समागच्छन्नपि न दृष्टो दुष्टैकजन्मा पापोऽयम् । अहह किंप्रकाराऽस्य व्यतिकरस्य परिणतिर्भविष्यत्याः प्रियसखि तारावलि ! त्वरितमासूत्रय कमप्युपायमाश्रय कञ्चन कथय कस्याप्युपसरणादि कश्चित्, अथवा हे पृथिवि ! त्वमनेन सुचिरमनुपालिता किमिति स्थिरीभूय स्थिताऽसि, अहो महार्णव! त्वद्दहितुरसौ लक्ष्म्याः पतिः किमिति जडत्वमालम्बितोऽसि, हंहो दिक्पालाः ! सकल दिग्जयप्रक्रमेष्वनेन रक्षता भवन्नगरीसीमानमार्जिताः किमिति सुदूरमपमृतास्तिष्टथ, भो भो दिनेश्वर ! तेजसा त्वमेवास्य सोदरः किमित्येवमुदासीनो वर्तसे, ननु सर्वेऽप्येकमतीभूय किमिति नैनमनेन दुर्वृत्तचेतसा वनचरेणारब्धमखिलजगदेकनायक राजानमागत्य परिगृह्णीत यूयमित्याकुलीभवन्त्यामुत्कम्पमानायामुदयसुन्दर्यामवनिपतिरहो नन्वपसदोऽयमतथ्यसामर्थ्यः प्रोज्झितः सत्वेन प्रकृत्यैव तरलात्मा निदर्शनं च कातरेषु । तत्खलु कथमिवैतदळे त्रिजगदुपगीतविक्रम व्यापारयामि शस्त्रम् । असाधिते चास्मिन्न नाम तन्वी निराकुलेयमतः करोमि निग्रहम् । प्रमूञ्छितमुचितप्रहारमूर्च्छया निश्चेतनमिमं विधाय यामि गृहीत्वा प्रेयसीमलममुना पश्चतां नीतेन वराकेणेति चेतसि विनिश्चित्य सपदि प्रगुणितचपेटाघातनिष्टुरेण पाणिना दक्षिणेन प्रविश्य तं कपोलतले जघान ।
अथ स झगिति पुंसो रूपमासाद्य दिव्यं
विलसदुरुकिरीटप्रायभूषासुवेषः । वियति सुरवधूभिर्वीज्यमानो विमाने
मनुजपतिमवादीत्साधुभोः साधुसाधु ॥ साधु त्वया क्षितीशतिलक! स्वां प्रकृतिमासादितोऽहमिदानीम् । विसृज व्रजामि । न जाने निजं स्थानमनुगच्छतो मे कियचिरमन्तराले विलम्बोऽयमेवं समभूत् । अतोऽनुमन्यस्व मां गमनाय । यत्त्वमप्यनया मनुजभुवनैकचक्रव