________________
१३८
सोडलविरचिता शरीरमावहन्ती त्रपया सस्मितमवनम्य वदनकमलमहो मुश्चत मामिति शनैरतिमृदुमधुरमालपन्ती करतलाकर्षणप्रयासमकरोत् । राजाऽपि सहर्षमीषद्विहस्य बहुरसोपलालितेन मनसा सनर्मसन्दर्भमब्रवीत् ।
मुधैव तन्वङ्गि सरोजसुन्दरं ___ (कर) किमाकर्षसि कोमलोदरम् । स्फुटाक्षरं चन्द्रमुखि त्वमुच्यसे
चिरेण लब्धाऽद्य कथं विमुच्यसे ॥ अनन्तरमब्जिनीपलाशपुटभरितमुदकमादाय सवेगमायान्ती तारावली विलोक्य दूरादेव राजानमानन्दनिर्भरेण चेतसा तत्तथा तदीयं सङ्गममभिनन्दन्ती साधु साधु सम्पन्नम् । अहो कुतः, कुतोऽत्र, कथमत्र, किमत्र, समस्तजगदाजीवनैकहेतुरेकाकी देवः, इति सविस्मयोत्सेकमापृच्छय मनाक् तेनैव पयसा तयोरवतारणकमङ्गलमकरोत् । राजाऽपि विश्वभूतेः शिष्यागमनक्षणाप्रभृत्यखिलं स्वीयमनुभूतविषयं व्यतिकरमावेदयाञ्चक्रे॥
तदनु तुरगभावभ्रंशमूर्छापहार
प्रवणपरमशक्तिख्यापनापूर्वकं तम् । मणिमखिलमयूखोल्लेखलिप्तान्तरिक्षं । व्यतरदमृतधारास्राविसारस्वतश्रीः ॥ इति कविश्रीसोडलविनिर्मितायामुदयसुन्दरीकथायामुभयमेलको नाम सारस्वतश्रीपदाह्वः
सप्तम उच्छासकः ॥
अष्टम उच्छासकः॥ अथैवमवसरे सपदि निपतदुच्चण्डहादिनीतडत्कारमोदरम् , दुर्दशा(?) सुरसमरसंरम्भकुपितकात्यायनीकठोरहुङ्कारदारुणम् , अक्षवधप्रधावितपवननन्दनोत्कलितकिलिकिलारावभासुरम्, अरिवर्गनिग्रहातिविषमभीमनिर्मुक्तघनसिंहनादमेदुरम् , अशेषतः प्रतिशब्दिताद्रिकन्दरसरोवरम्, आकुलीकृत. सकलजलसत्वम्, उत्रासितवनशकुन्तम् , आविभ्रता चूत्कार(हुंकार?)पटलेन स्फोटयन्निव हेमाण्डमण्डलम् , उदश्चितया चपेटया पाटयन्निव नभस्तलम् , वेल्लता लाङ्गलवलयेन रुन्धन्निव दिङ्मुखानि, रोषानलज्ज्वलितया दृशा दहन्निव