________________
उदयसुन्दरीकथा।
१३७ न्मनोविषयनायकः सम्यग्ज्ञातान्वयनामवसतिरालोकितोऽपि पुनरिदानी दूरीकृतो दैवेन । किंच सोऽपि मदर्थमित्थमेव ताम्यन्नास्ते । क पुनरसावालोकनीयः कथमालोकनीयः कदा चालोकनीय इति विलप्य सविषादमुद्ग्रवे.. गवती मूर्छामगच्छत् । तारावली तु हा हा स्वामिनि ! हा निजवंशवैजयन्ति ! हा कन्दर्पविजयश्रीः ! हा त्रिभुवनालङ्कारमुक्तावलि ! किं किं किमिवाचेतनीभूताऽसि, किमद्याह्लादिनि ! मृगाङ्कमूर्तिरिवास्तमुपयान्ती जगदप्येतदन्धकारयिष्यसि, हा हा मुषिता मुषिताऽस्मीति सेचनार्थमानेतुं सलिलमतिसत्वरं गतवती । अथ राजा नितान्तमाकुलीभूय प्रधावितो हा हा विरसपर्यन्त एष संवृत्तो व्यतिकरः । तद्यदि पुनरसौ मणिर्यथा कायपरीवर्तनविकारमपहरति तथा मूर्छादिव्यपायहरोऽपि जायत इत्याकूतसत्वरमुत्थाय गृही. त्वा च तं मणिं तद्गर्भितेन पाणिना सुदृढमुद्यसुन्दरी करे जग्राह ।
अत्रान्तरेझगिति तस्य मणेः प्रसङ्गा
दुच्छिन्नमूर्च्छमपमुद्रविलोचनाऽसौ । वेगोत्थिताधृतकराग्रमनङ्गरूप
मग्रे नरेन्द्रमवनीतिलकं ददर्श ॥ ततश्च
तस्याः सोऽयमिति ज्ञाते तस्मिन्नाविरभूद्रसः ।
स कोऽपि यमुदाहर्जुमभूजाड्यं विधेरपि ॥ अनन्तरंच
सा तस्य पातुमलगत्तृषितेव तन्वी __ रूपामृतं नवकटाक्षमृणालकेन । तामप्यनङ्गदहनग्लपितामदभ्र
दृष्टिच्छटाभिरभितोऽपि नृपः सिषेच ॥ ततस्तयोर्नूतनसंगमोत्सबप्रमोदलोलेव सवेगमन्तरे । परस्पराविष्टकटाक्षसंक्रमे रतिः करोति स्म गतागतानि(वै ?) ॥
एवमनयोः लपनकेनेव मदनश्रमजलेन स्नातयोहस्तमेलापकेनेव मणिना सनाथकरतलयोः पार्श्वतःप्रसरता द्विजोद्धोषेण वृत्तमिवाकृतविशेषप्रक्रियोपचार पाणिग्रहणम् । अभिनन्दितं च पवनोल्लासितानि जलोमिशिखरशीकराक्षतकुलानि तरुलताप्रवालकुसुमानि च सन्मुखमिवनिक्षिपन्तीभिः जलवनाधिदेवताभिः। अथ रसायसुन्दरी स्वेदजलकणनिकरदन्तुरमुद्भिन्नपुलकमाकम्प