________________
सोडलविरचिता यस्योद्यद्दीप्रवज्रानलसरलशिखाभोगभासि प्रतापे __ स्फूर्जत्युचैन केषां झगिति विगलितो भूभृतां स्तब्धभावः । सा नु व्यक्तैव तस्मिन्नसमगुणवती कापि दिव्यौषधीनां
शक्तिर्यन्नो विलीनस्तुहिनदलमयोऽप्येष मन्ये हिमाद्रिः ।। तस्य च सदैवाङ्गलग्नः पुरःसरः कार्येषु, परिमल इव पारिजातस्य, तरगाभोग इव सागरस्य, किरणकलाप इव दिवसराजस्य, शिखाभर इव कृशा. नोरेक एवानुजन्मा तीव्रतरवारिधाराजलमार्जितारिनामाक्षरश्रेणिः, आसमुद्रमेदिनीकेलिदुर्ललितविक्रमो, निधानमशेषविषयवर्तिनो ज्ञानस्य, सरस्वतीभवनं, नाम्ना कलादित्य इति पुरुषभूषणं बभूव । यः समन्तादुपान्तनिहितनूतनेन्द्रनीलमणिमयूखवलयमालाभिरलघुलोहशृङ्खलाभिरिवोपसज्जितं निजाग्रजराज्यसिंहासनमनारतं हठादाकृष्यमाणनरेन्द्रसम्पदा बन्दिशालीचकार । स हि महीभृतामुत्तमस्तेनानुजन्मना सह समस्तमनिशं संसारसुखमखण्डितविलासमासेवमानः कदाचिदसहमानोऽन्यतेजस्विषु प्रथममसमसंरंभसञ्चरदपारहरिकरिवरूथिनीरजोभिराक्रम्य दिवसराजस्य मण्डलमुच्चचाल दिशो वशीकर्तुम् ।
यस्मिन्नुच्चलिते विजेतुमभितो दिक्चक्रमुच्चक्रम
क्रामत्कुञ्जरदण्डचण्डचरणन्यासैनमन्त्या भुवः । मन्ये निर्भरपातमुद्धरमहाभारेण भग्नस्तदा
तेनैवं चलति प्रकामकुटिलीभूतो भुजङ्गाधिपः ॥ अथ तस्य सुदूरमारूढिमता विक्रमगुणेन विपक्षवंशमवनम्य कोदण्डवत्करप्रणयिनं कुर्वतः क्रमेण क्रमतलानीतनिखिलनरपालचक्रस्य कथञ्चन बलीयसा सप्ताङ्गसमग्रेणोत्तरापथस्वामिना मान्धातृवंशप्रभवेण भूभृता धर्मपालेन सह विग्रहो दीर्घतामवाप।तां तथा विलोक्य विग्रहस्यायतिमेकस्मिन्नहनि ननु कथमसाध्योऽयमरातिरस्मद्दलानामिति क्रोधतरलितेन चेतसा समरोपकरणसज्जितमारुह्य कुञ्जरप्रवरमुर्वीश्वरः स्वयं गत्वा दुर्गरोधयुडान्तिके बभूव । तत्र च प्रचुरयन्त्रोपलाग्नितैलरणमण्डपाद्युपकरणदारुणे प्रसरमागच्छति महारणे, रणरसाविष्टसुभटसङ्घहितासिरणितवादित्रेषु प्रवर्त्तमानेषु कवन्धताण्डवेषु, तरकरिकरङ्कनौकासु प्रसरन्तीषु शोणितनदीषु , दीप्यमानजिगीषुनरपालकोपानलेषु विजृम्भमाणेषु च भ्रमद्गध्रपक्षप्रभञ्जनेषु, सहसैव दुर्गादागत्य सिन्धुरगतस्य राज्ञश्चरणयोरग्रे पपात परमेको विविधवर्णरमणीयकायः सायकः । दृष्ट्वा च निकटमधिरूढो भ्राता कलादित्यः स्वामिन्नाश्चर्यमक्षरश्रेणीसनाथ: