SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १३५ उदयसुन्दरीकथा । क्रियमभीष्टं दैवतमपूजयम् आगता च तथैव माणिक्यभवनगर्भमित्थमेतेन प्रगुणितैरनेकनवपाकशालिभिः फलैराहारमकार्षम् । निर्वर्तितदिवसकृत्यायाः सुखनिषण्णायाश्च तल्पतले मम स्वयमसौ कपिरविरतं द्वारि स्थितो रक्षामकरोत् । एवमन्यदाऽपि यदा तु कचित्फलादिकमाहर्त्तुमुपयाति तदा तामेव गिरिभित्तिमनन्यगम्यां पिधानं दत्वा मद्भवनमन्येषामलक्ष्यगोचरं विधाय प्रयाति । न चात्र दुरन्तवनगहरे पतिता दिङ्मोहबहुलिता क यामीति जानामि । नापि तस्य कपेः सकाशात्पदात्पदमपि गन्तुमन्यतः प्राप्नोमि । तेन च बलवता - ऽधिष्ठितमिदमरण्यमालोक्य सर्वेऽपि वनप्राणिनस्त्रासेन सुदूरमुज्झाञ्चक्रुः ॥ तेनैवं काननेऽस्मिन्ननिल रविकर स्पर्शमात्रोपसर्प त्सम्पर्क पाल्यमाना विगुणदिनदशादुस्थितिं प्रे ( स ) यन्ती । पञ्चेषुप्लोषपीडामिह सरसि बिसाम्भोजसेवोपचारै (रारब्धैर्मन्दयन्ती विधिललितमितोपीक्षमाणा वसामि ॥ कः पुनरसौ कपिः, केन वा निरूपितः, किहेतुकश्चायमीदृशोऽस्य मदङ्गपरिपालन क्लेशः, कथमहमिहागतेत्यादि न ज्ञातम् । अद्य पुनः स्नानक्षणे स चूडामणिरादाय यथैव मया समयातिक्रमसमुत्सुकया शिथिलग्रन्धिबन्धमुत्तरीयाञ्चले बद्धस्तथैव देवमभ्यर्च्य त्वरागमनव्यग्रतया विस्मृतस्ततो वसनाञ्चलान्निजाङ्गभारेण विच्युतग्रन्थिरपतत्र कुत्रापि । स्मृतश्चेदानीं तेन शून्यं सीमन्तकास्पदं गतेन कथञ्चन पाणिना । तमन्वेषयितुम दूरमित्यनुत्थापयन्त्येव कृपया तमनुगामिनमद्य केनापि दूरात्खेदितमिवायातमतिश्रमेण निद्रागतं वनौकसमेकाकिनी समुच्चलिताऽहमिह । त्वमपि प्रियसखि संक्षेपतः कथय तारावलि मद्रियोगकृतो वासरादारभ्य समस्तं वृत्तान्तमात्मनोऽपि जटावल्कल परिग्रहमश्वभावमिममिहागमनं च । स किं दृग्विषयमागतस्ते कुतश्चिदियता कालेन मम मदनार्त्तिहेतुर्युवा न वेति ससम्भ्रमं दृष्टा तारावली तत्सर्वमदर्शनक्षणात्प्रभृति निजं वृत्तान्तमारभत निवेदयितुम् ॥ I सखि श्रूयताम् । उदयसुन्दरि तदा शयनादुत्थाय त्वामपश्यन्ती नितान्तविधुराऽहमेव त्वदम्बापुरस्सरस्य स्वामिनः शिखण्डतिलकस्य ज्ञापितवती । तेन चैवमन्वेषयितुमनुप्रेषिताः सर्वतोऽपि चराः । त्वद्वियोगदुःखिताचाहमप्येवं त्वदन्वेषणकृते निर्गता गता चैवमसृग्भुजो गोचरम् । एवं ततो रक्षिता तेन तव हृदयमदनेन । दृष्टश्चैवमसावालापितश्चैवं ज्ञातश्च नामान्वयनिवासनगरसंवेदनादेवमेव च तेन कुमारकेसरिवृत्तपूर्वकमुपदर्शितः स ते जीवितं
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy