________________
उदयसुन्दरीकथा |
म्भवतीं चित्रशालिकामिव रतिनिवासाय कल्पिताम्, जघनचक्रोपराजितां कर्मशालामिव कन्दर्प कुलालस्य विश्रुताम्, गभीरया नाभ्या मूषावतीं वातिकि (गे ?) द्रविद्यामिव शृङ्गाररसमादधानाम्, वलित्रयतरङ्गिणीं सरितमिव सौन्दर्यदेशान्तर्विस्तृताम्, सुवृत्तपीवरेण (स्तनयुगलेन ) माणिक्यनायकवतीं रत्नावलीमिव त्रिभुवनश्रियः, नयनशफरोत्फालवतीं वेलामिव लावण्यसागरस्य, भ्रूचापलवलयिनीं वीरवृत्तिमिव तारुण्यसुभटस्य मुखसरोजसुन्दरां पद्मिनीमिव ब्रह्माण्डसरोवरस्य, विधिना निर्माय त्रिभुवनमनोहरामिमां मा कोsपि द्रक्ष्यतीति गोपायितुमिवारण्यगहरे विमुक्ताम्, मृणालिकाभरणां जलदेवतामिव कौतुकात्स्थले सञ्चरन्तीम्, करकलितलीलाम्बुजां लक्ष्मीमिव कमलवनात्क्रीडया भ्रमन्तीम्, कुसुमोत्तंसभासितां वनश्रियमिव शैत्याय सरस्टे पर्यटन्तीम्, निर्माण सर्वस्वं भव्यतायाः, धारागृहमतुच्छकान्तिच्छटानाम्, फलं कन्दर्पकुसुमस्य, तीर्थं लावण्यसलिलस्य, पात्रं शृङ्गाररसस्य, मदनार्त्तिदशाजाड्यपाण्डुरं गण्डयोर्युगलमाधानाम्, तारावलीसम्मुखमालिङ्गनसमुत्सुकामायान्तीमुदयसुन्दरीं ददर्श ॥
दृष्ट्वा च सचमत्कारमारमाधूतमौलिः - अहो साध्वभिहितवती यथार्थ - वचना तारावली, सत्यमेव त्रिभुवनश्रियः सीमन्तरत्नमसौ मृगाक्षी, मुधैव मया धारितोऽयं मणिः । किं च यथाऽऽख्यातं कुमारकेसरिणा यथा दृष्टं च तत्र पटे तथाऽभ्यधिकमेव रूपं तस्याः । किमुच्यते ।
तथाहि
निक्षिप्तमम्भोजभवेन रूपसर्वस्वमस्यामिति तर्कयामि । कुतोऽन्यथा कार्मुकपाणिरेव जागर्त्ति रक्षार्थमिवाङ्गजन्मा ॥
अथवा
सा श्रीरियं खलु यया जन एष यातिहारायलङ्कृतिविकस्वरमीश्वरत्वम् । दृष्टि: प्रहर्षजलबिन्दुमिषादतोऽभूदेनामवाप्य नवमौक्तिकभूषणा मे ॥
१३३
किं बहुना -
यत्संलीनमनिद्रचम्पकदलच्छायाभिरामद्युतावेतस्यां किल मे प्रसूनधनुषो रागेण रक्तं मनः ।