________________
१३२
सोडलविरचिता रितं हरेर्वक्षस्थलमधिष्ठितः, चिन्तामणिरप्यनेन सादृश्यमात्मनोऽभिवाञ्छन्निव दानाभीष्टं फलमित्यर्थिनां चिन्तितार्थदाने प्रवृत्तः, अन्ये च मणयः प्रभापराभवभयेनेव, केचिद्गाधाम्भोधिमध्यवर्त्तिनो नाविर्भवन्ति, केचिदाश्रितरोहणाद्रयः समन्तादात्मानमतिप्रभूतया मृदा प्रच्छाद्य तिरोबभूवुः, के. चिच्च रसातलं प्रविश्य फणीन्द्रफणापञ्जरमधिश्रितवन्तः, किमिह नाम लात्वा निर्गच्छतः कस्यापि विस्मृतः, किमम्बरे विमानगामिनो जनात्परिभ्रष्टः, किं वाऽन्यतः केनापि वन्यप्राणिना पक्षिणा वा कुतश्चिदाहृत्यात्र निक्षिप्तः, यथा च मधुव्रतोपसेव्यमानबहलपरिमलोद्गारवाही सिन्दूराङ्कितश्च क्वचित्तथा तर्कयामि सौरभ्यसम्भृताङ्गावयवसङ्गिन्यलङ्करणे कस्याश्विदङ्गनाया विभूषणमसौ तदेनमादाय पश्यामीति परामृश्योत्थातुमिच्छो राज्ञः समीपं सखलु कथञ्चन ततखुरप्रहतिवेगादुच्चलितो मणिरने पपात ॥
सा च परं तेन मणिस्पर्शप्रभावेण झगिति तुरङ्गयारूपमुज्झित्वा तदेव जटावल्कलोपवीतधरं शरीरमावहन्ती तारावली बभूव । राजा तु तं प्रभावभूयिष्ठं मणिमात्मनोऽग्रे पतितमालोक्य ननु कीदृगिदमिन्द्रजालसोदरं कुतूहलमिति विसर्पता विस्मयनाकृष्ट इव तस्मान्मणितो निवर्त्य निश्चलेन चक्षुषा रूपान्तरेणोज्झितामभिनवामिव तारावली द्रष्टुमारेभे । साऽपि स्वमूर्तिलाभरभसितमात्मानं विभाव्य तेनाद्रिणा सरसा च निरुद्धमध्यं तन्महारण्यमितस्ततो विस्मिता निभालयन्ती सरभसमेकहेलयैव विनिहितविलोचना साधु साधु चिरादनुगृहीताऽहमभीष्टघटनया देवताभिः । कुत्रेह क्रूरवनचरावतारदारुणारण्यसरसस्तटे त्रिभुवनश्रियः सीमन्तरत्नमित्थमनुचितावस्थानदुःस्थितमभूदित्यालपन्ती दूरतोऽपि प्रसारितकरा त्वरितमद्रेरभिमुखी धाव ॥
राजा तु तथा प्रवृत्तायां तस्यां सवितर्कमहो कोऽयमालापस्यान्यथावृत्तिरुपक्रमोऽमुष्याः। मणिरसौ ममाग्रे तिष्ठत्येषा तु धाविता सन्मुखी शिलोचयस्येति विस्मयात्तत्रैव यावन्निरूपयति पङ्कजदलायतं चक्षुस्तावदादौ यस्मिन्नकिञ्चिदेव गिरेभित्तिमात्रकमेव केवलमालोकितं तत्र परमकस्माद्भूमीध्रगर्भे विचित्रनवरचनामनोहरं माणिक्यमणिमन्दिरमपश्यत् । तस्माच्च मत्तकरि(परि) चितया गत्त्या सलीलं निःसरन्तीम्, अनुहरन्तीं च तमेव चित्रप्रपश्चितं रूपम् , आप्यायिकां दृशोः शशिबिम्बदलोपरचितामिव चन्दनकरम्बितामिव कर्पूरपिण्डितामिव कमलमसृणितामिव सुधोपशालितामिव मूर्तिमुद्रहन्तीम् , नखकुसुमशोभितया चरणपल्लवश्रिया लतामिव सौभाग्यभूमावुद्गताम, ऊरुस्त