________________
उदयसुन्दरीकथा ।
१३१ चाभ्यवहृत्य प्रत्यग्रसरसानि मृणालीकिसलयदलानि तीरतरुलताफलानि च पीत्वा च तरुच्छायातिशीतलं सलिलम्, आसन्नवर्तिनः शाखासन्दोहबहलस्य तमालविटपिनोमूलवर्तिनीमनुसूत्य च छायामुपाविशत्।।
उपविष्ट एव च हृद्यीकृत्य तं वलीमुखमशेषतो जलावतारवमसु तटतरुशिखरेषु लतान्तरेषु गुल्मसन्धिषु कन्दरदरीमुखेषु च प्रहितचक्षुरालोकयत् । कियन्तं क्षणमतिक्रम्य मनस्यकरोत्-अहो न तावदिह दृग्विषयमागतोऽसौ दुरात्मा कपिः, कान्तारमिदमसञ्चारगोचरं च मानुषाणाम् । तथाह्याश्रयोद्देशलेशोऽपि न कचिदालोक्यते प्राणिनाम् , प्राय:श्वापदान्यपि न नाम सञ्चरन्तीह दुर्वने, तत्किमेवमत्राऽऽसितेन, तेऽपि कुमारकेसरिप्रभृतयः क स्थिताः, क किलास्माननुसरिष्यन्ति, क चान्वेषयिष्यन्ति, क वा भ्रमिप्यन्ति, किं करिष्यन्ति, कथं वर्तिष्यन्ते तपस्विनः, तद्यदि प्रीतिमुपगतेयममुना सरसदूर्वाहारचारेण तु(र) गी, ततो व्याघुट्य पृष्ठतो व्रजामीति संचिन्त्य तदभिमुखं निक्षिप्तचक्षुरकस्माचरन्त्यास्तस्याः पूर्वचरणयोरग्रवर्तिनमुल्लसितमांसलमरीचिवल्लरीपरीत. पुलिनपदम्, पुष्पमित्र विद्युल्लतायाः, गुच्छमिवाशेषप्रदीपकलिकानाम्, नभसः पतितं गर्भाण्डकमिव भगवतः पतङ्गस्य, ज्वलन्तं चितापुञ्जमिव निशातमिस्राणाम् , रविणा परिगृह्य सुभगीकृता द्यौरियमितीव स्पर्धया धरित्री स्वीकर्तुमागतं, पुरः सौरभ्यलोभागतैः कणषट्चरणचक्रैरालोकविदलनापराधभीतिसङ्कचितैरिव तमिस्रपटलैः प्रसाद्यमानम्, अतिस्वच्छतयाऽन्तदृश्यमानव( गि? ) लितानु(न्ध?)कारशकलानीव संक्रान्तासन्नविटपदलबिम्बकान्युद्धहन्तम् , अन्धकारशतैरप्यचिन्त्योऽयमिति सौख्यार्थिभिरिवाशेषतेजोभिराश्रितम्, दूरप्रसारिभिः करैस्तमालशाखान्धतमसमलिनितान्याशामुखानि क्षालयन्तम् , सर्वतोविजृम्भितेन तेजसा सकलमेकभूतात्मकं जगजनयन्तम्, असद्भावमिवापादयन्तमम्बरस्य, निकामनिर्मलमतिमनोहरं मणिमपश्यत् ॥
दृष्ट्वा च विस्मितेन म(न)सा समन्तादृष्टिक्षेपैनकोप्यस्तीति दृढं निश्चित्य ननु कायमिह स्वधामगरिमगौणीकृताशेषरत्नजातिरपूर्वोमणिः, कथमिदं सर(स्तीर)मनुप्राप्तः, कुतश्चैवमवभ्रंशदुस्थितिरभूत्, नियतमयमनन्तैर्मरीचिभिः सदैवाप्रहतेन च महसा (सहस्र)करमिष्टितं(मितं?)त्रियामास्तमिततेजसं भगवन्तमपि द्युमणिमतिकामति, निर्मलतयाऽवकृष्टलाञ्छनं कौस्तुभमतिशेते, किं च निष्कोपतया मुनीन्द्राणामपगतत्रासतया च सुराणां स्पर्धते मनोभिः, अपिचामुना जितप्रभः कौस्तुभो लज्जित इव वनमालापगूढमसितप्रभान्धका