________________
सोडविरचिता
महत्तरत्वेन, निर्मुद्रमपि मुद्रितोपकण्ठं श्वापदपदैः, दुस्तरमपि तीर्यमाणं तरङ्गैः, अस्ताग ( अगाध ? ) मपि लब्धमध्यं पयोभिः, अमलमपि मलिनमिन्दीवरप्रभाभिः, पवित्रतोयमपि मिश्रितमरविन्दमम्बु (धुबिंदु ?) भि:, कचिज्जलदेवताञ्जनकूपिकाभिरिव दन्तुरं कुवलयकलिकाभिः कचिद्वरुणवाराङ्गनाशृङ्गारयावकक्षेपपात्रैरिव पाटलमुनिमषित रक्तोत्पलैः कचिद्वारिलक्ष्मी निमन्त्रितानीत नववधू वरैरिव पिञ्जरं चक्रवाकमिथुनैः, कचिच्चटुलवल्गिभिश्चलदिव जलकुक्कुटकुटुम्बकैः, कचिडवलकान्तिभिर्ह सदिव चकोरपेटकैः, कचिन्मसृणवाणिभिर्जल्पदिव कुररसन्दोहैः, कचिद्दीर्घमाराविभिर्गायदिव कुमुदषट्पदैः, उल्लसता जलेन द्रावयदिव मेदिनीम्, उत्फालशालिना तरङ्गचक्रेणाक्रामदिव दिशः समुत्पतता शीकरकदम्बकेन व्याप्नुवदिवान्तरिक्षम्, श्रुतमेव तापापहारकम् दृष्टमेव तृष्णाहरम्, जलकुञ्जरैरप्यनासादिततलम्, लहरीभिरप्यदृष्टपारम् अपारप्रसारमुपतीरसम्भृताङ्गं तडागमद्राक्षीत् ॥
"
१३०
,
उद्वेल्लन्नवनीरजन्यजनकवातोदराकर्षितं
यत्रातिस्थिरगन्धवाहतुलितं गन्धं गृहीत्वा नवम् । भृङ्गास्तत्क्षणलब्ध सौरभरसादुन्मादवन्तो भ्रम
न्यग्रेऽग्रे नलिनीश्रियः कृतरवं ग्राम्या भुजङ्गा इव ॥
अपि च
यत्र
पूगीवलयवल्लाले गर्भ ( लीलागर्त ? ) रङ्गे स्थिता इव । खेलन्ति लहरीदण्डैर्दण्डरासमपां श्रियः ॥ तदवलोक्य झगित्युपनत वितर्कश्विन्तयाञ्चके । व्यावृत्त्य ध्रुवमागतः स भगवान्भूयोप्यगस्त्यो मुनि
स्तेनैते चकिता इवोर्मितरलाः सप्ताऽपि वाराशयः । अत्रागाधगभीरगर्भ गुरुणि स्वैरं प्रविश्य स्थिताः
पालीपिण्डमिवेण पूर्णवचनो विन्ध्यश्च वृद्धिं ययौ ॥
इत्येवमनुचिन्त्य सहर्षमाप्यायितमनाः सरभसमुत्तीर्य विसृज्य पर्यामुल्लोढ नस्लपनजलपायनादिभिः सन्तर्प्य च सङ्कलय्य लतावल्कलेन तुरङ्गीं नवहरितदूर्वाङ्कुरमनोहारिणि परिसरे स्वैरं चरन्तीममुञ्चत् । स्वयं च तुरगीखुरशिखरखण्डिताध्वधूलिभिराधूसरं प्रक्षाल्य चरणयोर्युगलम् आकृष्य च स्वयमम्बुजादिजलजकुसुमैश्चकार माध्याह्निकीं देवतोपास्तिम् । अनन्तरं
"