________________
उदयसुन्दरीकथा ।
१२५ मास्ते । ततश्चात्मनः पर्याणपरिकरेण प्रगुणीकृत्य सेयमानीता देवस्य पादान्तिकम् । उपरिष्टाद्देवः प्रमाणमित्युक्त्वा विरराम ।
अथ कुमारकेसरिणाऽपि-अये निरुपायलब्धेनामुना रसान्तरेण राज्ञः सुदूरमन्तरयामि प्रस्तुतमनङ्गपीडाकरं रसमिति विचिन्त्य वीक्ष्य तां सम्यक सर्वाङ्गमवगतस्वरूपेण विज्ञप्तः-स्वामिन् ! अवधार्यतामसौ तावस्य (तावदस्ति) नवधा तुरङ्गजातिषु तोकोराजातिरुत्तमै(व)। साक्षादष्टधा हयलक्षणे च संस्थाने तावदुच्छ्रायो दैयं परिणाहश्चेति यथावदङ्गुलसंख्यया प्रधानमानोचितप्रमितिरुत्कृष्टैव, श्रवणयोश्च युगं यादृक्शास्त्रेणोक्तमस्ति तादृग्लघुतया श्रेष्ठं, मृदूनि च पश्य केसरत्वक्तनूरुहाणि, निर्मासताऽपि जानुजवाननेषु, नयनदशनस्तनेषु च वास्तवं लिग्धत्वम् , असावप्युड्रायवती ग्रीवा,खुरेषु निष्ठितमेव काठिन्यम्, पृथूनि च ललाटकटिस्कन्धपृष्ठाक्षिवक्षस्थलानि, किमुच्यते यथोक्तैव संस्थानगुणेनासौ वर्णेन च मूलवर्णचतुष्टयात्पाटलच्छविः। आवतॆस्तु यथास्थानमुचितैरेव चिह्निता, ध्वनिना च सङ्ख्यस्य(शंखस्य?) हेषते । देव सत्वं च सत्वेनाविर्दधाति । दधाति च छायामाग्नेयीम् । सुरभिश्च सौरभेण पङ्कजवनस्य, त्वरितया विलासवत्या च गत्या प्रचरति । सप्तधा प्रकृतिषु शुद्धव सत्वप्रकृतिः। प्राणमपि तमेव प्रधानमाङ्गिक स्पष्टयति । एवमेभिः शुभलक्षणैरक्षीणसृष्टिरसावहत्यधिरोढुमारूढिनिव्यूढस्य स्वामिनः । तद्देव ! कौतुकादधिरुह्य वाह्यतामियम् । धारा हि याः किल विपश्चिताः पञ्च तास्वेकैका त्रिधा प्रकीर्तितेति सम्यक् निरूपय प्रथिताश्ववारधौरेय !, तासां क्रमं पञ्चधा मण्डले तु तथेत्युपदर्शय प्रकर्षात् भो ! वाहविद्ययोपहसितरेवन्त !, विधि वाहनस्य षधिं च धरणीन्द्र ! सूत्रय, त्रिधा च वीथी तस्यामुचितक्रमेण वेगमारोपयतु वाहनविधिविशारदो देव इति आदराद्विज्ञप्ते तेन कौतुकी नरेन्द्रः सलीलमारुह्य तथैव तां वाहयितुमुपक्रान्तवान् । अत्रान्तरे च
झटिति प्रधावन्नागतो दुरन्ताकूतविक्लवः, प्लावितोऽम्भसा श्रमजेन, गतिजवायासविसृताभिरनवरतनिःश्वासोच्छाससन्ततिभिरन्तरितवचनवर्णपरिपाटिः, कर्मकरः करभकः-" देव ! मुषिता मुषिता स्मः, पश्यतामस्माकमशक्यनिग्रहेण दुरात्मना कुतोऽप्यागत्य विध्वस्यमानमिदं रक्ष्यतां रक्ष्यतामुद्या. न "मिति सत्रासगद्गदमवादीत् । विस्मयोत्सुकैरुपान्तवर्तिभिश्च केन रे केनेति युगपदापृच्छयमानो भयानुद्गीर्णनामा तेन तेनेति जल्पन् नृपेन्द्रमहासयत् ।