________________
१२४
सोडलविरचिता ल्पितेव वेधसा, प्रभूतवेगास्पदतया शरीरसिद्धिरिव मारुतस्य, प्रत्यक्षतेव चित्तस्य, रूपान्तरोत्पत्तिरिव गरुडस्य, जन्तुपरिणतिरिवासूनामाङ्गिकप्राणप्रकर्षतया, वेगमतिहठादाच्छोटयितुमिव रंहसा प्रसिद्धेषु प्रविष्टालोकहृदयेषु, त्रिविक्रमवत्रिभिरेव क्रमैर्विश्वमतिक्रमितुमीश्वरा, मङ्गलार्थमिव क्रमं चतुर्थमाबिभ्रती, हयजन्मनोऽन्यस्य ग(ति)त्व( रा )मसहमानेव मुहुर्मुहुःस्फुरता घ्राणानभागेन भासमाना, मुखान्तर्विरमता स्फुरन्ममृणहेषारवेण त्रिभुवनोल्लङ्घनप्रतिज्ञामिव कुर्वती, तेजसा सर्वतश्चलदगतया धरणितलस्पर्शघृणयेव कम्पमाना, गतिजवनिषेधक्रोधादाताम्रितेव मञ्जिष्टारागपाटलं वर्णमादधाना, विशिष्टगुणा. धारसृष्टिना स्वरूपेण चातुष्पदीजातिमुत्कर्षयन्ती, सहगमनवेगाद्भग्नगतेर्मरुतो बलस्वार्थ(सार्ध?)मिव लम्बिताभिरतिममृणघनसटाभिरुद्भासितेन बन्धुरा स्कन्धेन, स्निग्धा रोमभिः, तथा कर्णाभ्यामुपचितबलाप्यश्वि(स्थि?)मयी मुखेन, स्वरूपमुग्धाऽपि विदग्धा पदन्यासे, अदृष्टपूर्वैव सुरलोकसम्भवाकारविभ्रमधरा, मनोहराङ्गी तुरगीति कुमारकेसरिवचनाद्राजा झटित्यन्यतो विकृष्य तस्यामरविन्दसुन्दरं चक्षुः सविस्मयमपातयत् ।
दृक्पातसमकालं च तया सह पुरः प्राप्तेन प्रणम्य विज्ञप्तः किरातराजेनदेव ! अद्य विन्ध्यस्य महागिरेः परिसरभुवि प्रचरतो ममाग्रे झगिति परमसावम्बरतलाइत्तफालमत्यन्तहरितदूर्वास्तम्बोपरि पपात, न जाने किं सत्यमियमम्बरादेव रविस्यन्दनमपहाय सरसदूर्वाहारकाशिणी क्षोणीतलमवातरत्, उतादिशिखरादमरजन्मनः कस्यापि वाहनमेवंष्टंपामदात् । (मनवष्टंभमपतत् ?) अवेक्ष्य च स्वरूपमेवंविधममुष्या विस्मितेन मया चिन्तितम्-अहो! कस्येयमसदृशाकारचार्वीकुतो वाऽत्र वितीर्य फालमागता ? मन्ये सप्तभ्योऽपि रविरथतुरङ्गमेभ्यो गतिवेगमाधाय निर्मितेयं विश्वसृजा तेन ते समतलमप्युद यास्तशैलयोरन्तरालमखिलेनाहा लड्डयन्ति । उच्चैश्रवा अपि निष्क्रम्य समुद्रमथनादेनामुदीक्ष्य निजपरिभवाशङ्कया नात्र महीतले स्थितिमकरोत् । समीरणश्चायमिदं यानकरत्नमपहाय हरिणमधिरूढो व्रजन् तरल इति मतो लोकेन । किश्च न तावदिह नूनमेनां त्रिदशतुरगातिरेकसुन्दरामाकृतिं वहन्तीं मनुष्यजन्मा कश्चिदधिरोढुमर्हति । तन्न यदि ध्रियमाणा झगित्यपक्रामति, तदियं मर्त्यलोकशक्रस्य वाहनार्थमुचिता भविष्यति चेत्स्वामिन इति सम्प्रधार्य सहग्वश्चनोपायमनुसरतोऽस्य दारकस्य हस्तेन मया धारिता, मया किमस्य ध्रियते शङ्कितः, एवममुना छलेन विधृतास्माभिरियं त्वनुत्रस्तहृदया सिद्धेव निःशङ्क