________________
१२३
उदयसुन्दरीकथा । एतस्मिन्नलिनीवनेऽस्य नियतं कान्तावियोगभ्रम
भ्रान्तं चित्तमवाप्य षट्पदपतेर्लग्नोऽङ्गजन्मा ग्रहः । तेनैष प्रलपन्विशृङ्खलमुखो राजीवधूलीभृतः ।
शून्यं भ्राम्यति सर्वतो मधुलिहामावेष्टितो बालकैः ॥ अत्रच
चक्राह्व(य)स्य शतपत्रवनप्रचार
संलग्नसान्द्रमकरन्दरसप्रसिक्ता। यामा(भूयो?)वियोगदुरितप्रशमाय"
लाक्षा सेवकवभु (वसेककलितेव?) वधूर्विभाति ॥ (?) इतश्च
एष प्रभूतमुकुराहरणप्रसक्ति
सन्तुष्टकोकिलनिकूजितकैतवे(न)। चैत्रेण भू(चू?)तनिल(येन) निश्ची(ची?)यमानः
पञ्च(श्चेषु?)सायकशिखाध्वनिरुल्ललास ॥ अस्मिन्नपि
क्रीडावने पश्य नवप्रभूतपुन्नागपुष्पानिपतन्परागः।
गन्धोपलक्षोद इव स्मराग्निमुद्दीपयत्येष मनस्सु यूनाम् ॥ इह हि
चन्दनाचलसमीरदोलिता मूलमुक्तधनरेणुधोरणिः ।
रागिणां क्रकचिकेव मानसं पाटयत्यहह चूतमञ्जरी ॥ कुमारकेसरी च व्यञ्जिताशयैरमीभि( री )दृशैरालापवचोभिरवनीन्द्रस्य हृदयमाकलय्य विषीदन् अहो प्रगाढमिह गृहीतोऽयमनङ्गपहतकेन स्वामी, ना। प्यतोन्यत्र मया नीयमानोऽपि यास्यति, न चेदृशं प्रदेशमपहाय रागिणां निर्वतिः, तदिहैव नाम कैरुपायैरुद्दिश्य च किमालम्बनमुदयसुन्दरीकृतामस्य मन्मथ( व्य )थामन्तरयामीति समन्तादत्तदृष्टिरेकतो विलोक्य ससम्भ्रमं जगाद स्वामिन् ! इत इतो निवेश्यतां दृष्टिरवेक्ष्यतामियमत्र वनवीरनाम्ना किरातराजेन कुतश्चिदासाद्य सरभसमानीयमाना, धृता च दारकेण वल्गायाम् , पर्याण सज्जिता, स्वागतोपहारढोकितेव सर्वतुराजेन मधुना, चरणसंचरणोपरोघदत्तेव दिक्पालैः, अनन्ययोग्येत्युपायनीकृतेव शक्रेण, वाहनैकरत्नमिति प्रीतिपरिक