________________
१२२
सोडलविरचिता सीमन्तिनीस्तनकलशान्, केसरपारागोदर्तिभृतोऽङ्ककारा इव वनतः (वनन्तः ? ) कोङ्कणीनामङ्कखलकेषु, पुन्नागमधुरसस्वेदिनो मल्ला इव मिलन्तो महाराष्ट्रकुटुम्बिनीनामूरुस्तम्भेषु, परिमलमिलितालिपटलकवचिनः सुभटा इव लगन्तो लाटलीलावतीनां वलिषु, मन्दगमनाः कर्णाटनारीकुचपत्रकस्तूरिकापकिलपथेन, शीतलास्तिलिङ्गतरुणीकुरुलवनच्छायोपसेवाभिः, सुरभयः सविभ्रमाभीरभामिनीमुखामोदेन, चन्दनगिरिपरिसरोद्यानमण्डलादुच्चलन्तश्चलकुसुमकतरुहस्तकाभिनयभारतकाः प्रसरन्ति दक्षिणदिगङ्गनाश्लेषमिलितकर्पूरसौ. रभसुगन्धयो गन्धवाहाः। किं बहुना
भ्रूभूमि केरलीनां मुरुलमृगदृशां विभ्रमोत्तंसदेशं
चोलीनां चारुकाञ्चीविषयमपि वलीमण्डलं सिंहलीनाम् । आक्रम्याम्बोधितीरे तरुकुसुमरजस्तम्भमुत्तम्भयन्तो ।
याम्याः पुष्पायुधस्य व्यद्धत मरुतो राज्यमेकातपत्रम् ॥ अथ तत्र तरुणजनहृदयसद्मनि प्रवेशमङ्गलमुहूर्ते मन्मथस्य, व (वा?)यौवने तरुधियां, रसायने(कुसु)मानां, नायके सर्वतूनाम् , उत्सवे विलासिनां, शृङ्गार सुहृदि विकचविचकिलमकरन्दसुन्दरामोदमिलितषट्चरणचक्रनिलूनमानिनीमानकन्दले दलद्वकुलपाटलाशोकसहकारमधुरसभरासारभग्नाध्वनीनवर्त्मनि वसन्तसमये; निबिडतरुपत्रपल्लवास्फालशब्दसुभगेन निभृतमुल्लपितवचनस्वनाभासमिवोच्यमानो मलयमारुतेन,मुकुरमधुमिलितकुटिलषट्चरणराजिरेखाग्रचलनसन्निवेशिभिः सभ्रूशिखास्पन्दनमिवानुमन्यमानश्चूतद्रूमैः, समीरणान्दोलनचलितहस्तकैः सहस्रसंज्ञमिव पूगीवनैः प्रेर्यमाणो राजा सदा मान्यमपि महत्तरं धैर्यमवधीर्य तस्यैककन्यकावस्तुनः कृते हृद्यमनगृहे दासीचकार । तेन च
प्रतिदिवसमादिश्यमानमानसो विबुद्धमन्मथहुताशनोत्ताप्यमानः प्रज्वलन्तमिवाखिलं परिग्रहमपहाय, पीयूषसृष्टिनेव कुमारकेसरिणा परिगतः, शिशिरेषु हर्षवशविसारिविहरणरसप्रसक्तकलहंसकामिनीमुखविखण्डितोल्लासितमृणालनलिनकिसलय (विलाससरसीतटेषु) गिरिसमीरताडितनिबिडताडीरवोत्रस्तहरिणरमणीकुलतरलनेत्रनीलोत्पल(नि)करपेशलेषु लीलावनेचरस्थलेषु यौवनभरमन्थरोद्यानपालिकाविकीर्यमाणदृष्टिकाममञ्जरितलतानिकेतनेषु च प्रमद्वनेषु रममाणः, पुरोऽवलोक्य सभ्रूक्षेपनिर्देशमुवा च कुमारकेसरिणम्-अहो पश्य पश्य ।