________________
उदयसुन्दरीकथा |
मध्यकथितमिव (श्रुतमप्य) श्रुतमिव ज्ञातमप्यज्ञातमिव पुनः प्रश्नैरावर्तयतः, हृदयानुवर्त्तकेन कुमारकेसरिणाऽपि मुहुर्मुहुराख्यायमानाभिरिमाभिरेव कथाभिरशून्यानि गमयतो दिनानि मेदिनीन्द्रस्य; जलद तिमिरा ( प ) सर्पणनिरर्गलोऽयं मयि सति लब्धप्रभो हरिणलाञ्छनः करैरनङ्गशरशल्य ( निहत) मुद्यद्दयमुर्वीपतिं व्यथयतीति प्रोषिते शरत्काले, तामेव सततमुदयसुन्दरीं ध्यायतो नियतमभिनवयवोपान्तसञ्च (र) त्क्रौञ्चकुलकठिनकेङ्कार मुखरोऽहमसम्मतो नरपतेरिति निष्क्रान्ते हेमन्ते, हिमपरिग्रहेण मया स्मरानलकरालितावनिपचित्तसन्तापशा (मक) सुभगानि प्रलीयन्ते कमलकाननानीति निःसृते च शिशिरे, समयसेवोपचारमिव कर्त्तुं मलयगिरिशिखर सरसीत रङ्गजलजडिमसमधिकसमीरणव्यजनप्रगुणः, प्रगुणीकृताविरलव (कुल) कुसुमकोशभरितमधुरसजलार्द्रापकरणः, स्वेदप्रतीकारकृते विकसतिविशदसिन्दुवारसम्भृतानल्पतरपरागकैतवोपरचितकर्पूर चूर्णः, तल्पार्थमिव गृहीतनवनिरन्तरतरुप्रवालपेशला भोगः समागतो वसन्तः ।
यत्र
सम्प्राप्तः सुहृदो वसन्तदिवसादेकोऽपि चूताङ्कुरः कन्दर्पेण शरीकृतस्त्रिभुवने भिन्नक्रियं वलूगति । मानं मानवतीषु कर्षति मनो मध्नात्यलं रागिषु प्राणानत्ति वियोगिनीषु पथिकेष्वन्त्राणि निष्कृन्तति ॥
अपि च
यस्मिन्नमुद्रमुकुरारचिताम्रसम्प
दुछृङ्खलेन मधुना हृदि वर्त्मगानाम् । आस्फाल्यमान झषकेतनकङ्कपत्र
शल्यस्वनं पिकरुतान्यनुमापयन्ति ॥
यत्र च -
१२१
त्रिभुवनानन्दप्रदायिनः समदमलयकामिनीकर्णपूर विरचितारविन्दकोशप्रवेशलालसाः श्रान्ता इव वसन्तः पयोधितटारामग्रामेषु, शिशव इव खेलन्तस्ताम्रपर्णीतरङ्गदोलासु, अतिथ्य इवोपतिष्ठन्तः कावेरीचलन ( कूलल ? ) तागृहेषु, पथिका इव मिलन्तो गोदावरीजलतुषार सार्थेषु, मृगमदमशीलिखितानि कलयन्तः पण्डिता इव पाण्डीकपोलपत्राणि, धम्मिल्लवेल्लीगतानि चिन्वन्तो मालिका इव कुन्तलीशेखरकुसुमानि, मन्मथनिधीनुद्घाटयन्तः सिद्धा इवा (न्ध्र)