________________
१२०
सोडलविरचिता . अथापरेयुः प्रातरेव कृपावती नाम शिष्या विश्वभूतेः समागत्य जय महाराजेत्याशीर्वचोनुगं कमलपूलकमुपढौकनीकृतं समर्पा समुचितोपवेशना. तिथ्यसन्मानिता राजानमब्रवीत्-राजन् ! आर्या त्वामाह यथा किल तारावली तस्मिन्नेवाहनि मठान्निवासमागते त्वयि हठात्प्रबोध्य कारिताह्निकविधेया स्मृत्वा तत्तदशेषमुदयसुन्दरीव्यतिकरमश्रुपातमात्रानुमेयकर्मणा रुदितेन तामशेषां रजनीमनैषीत् । विभाते च त्वरितमुत्थाय पुष्पोचयमिषेण कुसुमवाटिकामुद्दिश्य यत्खलु निर्गत्य गता, तदिदानीमेतितदानी मेतीत्येवं न तत्राहि समागता । न चास्माभिरये उदयसुन्दरीवियोगदुःखिता न ज्ञायते कापि याति किश्च करोत्येकाकिनीयमिति समन्तादितस्ततो निपुणं तद्दिनमशेषमन्विष्टाऽपि दृष्टा । न च निवेदितं भवतेऽपि, येन प्रायः कश्चिदिहापि पुरा परिचितः सुहृजनो मिलितो भविष्यति स नीत्वा गौरवेण निजं निलयमातिथ्यसत्कारेण तामद्य सन्मानयिष्यति, किमेवमविवेकिनी तारावली, येन मामपृच्छयन्त्येव कुत्र चिद्याति, तत्प्रातरवश्यमेष्य(ती)ति । न चागता प्रातरपि । एवमद्य गतायाः कापि तस्यास्तृतीयो वर्तते दिवसः । तन्नूनमसाविह न शक्नोति वीक्ष्यमाणा भवन्तमुदयसुन्दरी विना स्थातुमिति यथैव पूर्व गृहानिर्गता तां गवेषयितुमेवमितोऽपि मन्ये गता भविष्यति । तन्न भवता परामर्शपण्डितेन शोचनीयाऽसौ। न चानीतया गवेष्य तया किञ्चन प्रयोजनमस्ति । स चान्वेषणप्रयासो वरमुदयसुन्दाः क्रियते । सा पुनयेस्मिन्नुदयसुन्दरी तत्र सर्वतोऽपि भ्रान्त्वा स्वयमेष्यति-इत्यादि सम्यक् सोपदेशमाख्याय लब्धाशिषा नृपेण सप्रश्रयमशेषं तथेति तद्वचः प्रति. पद्य विसर्जिता सप्रतोषमयासीत् ।
__ अनन्तरमनेन तारावलीगमनविस्मयरसेन जडीकृतान्तःकरणवृत्तेः, उदयसुन्दरीव्यतिकरानुचिन्तनपथायातमन्मथशरघातवेदनादूयमानमनोविह्वल तया कुतोऽपि निर्वृतिमलभमानस्य, स्त्रीरत्नफलितायाः प्रतिदिनमुदञ्चदाशाकल्पलताया मूलमिव तमभ्यर्णवर्तिनं कुमारकेसरिणममृतरसावसेकसुभगेन दृष्टिपातेन समुपशीलयतः, सह तेन ननु क किल तारावली गमिष्यति ? केन पथा प्रस्थितवती?किमङ्ग सत्यमुर्वीतले प्रियसखीमवेक्षितुमगात् ? उतान्तरे किमपि व्यपायरूपमन्वभूत् ? किमस्याः संवृत्तमित्यादि परामृशतः, क्षणं च क नाम तवासावुदयसुन्दरी दृष्टिपथमुपेता ? कथमवलोकिता ? किं कृतवती ? किमुक्तवती ? कस्मादागता ? कस्य कुलवर्तिनी ? क वर्तत इत्यादि कथित