________________
उदयसुन्दरीकथा।
११९ किं शीतैरथवाऽऽतपात्रि(दि?)भिरुत क्षोणीतलोल्लङ्घनै
राहोस्विन्नवबन्दिमन्दिरपरिक्लेशादिभिः साऽथवा । मत्सम्बन्धिभिरप्यनङ्गविशिखाघातव्रणैः पीडिता
हा प्रत्यग्रमृणालकोमलतनुस्तन्वी कचित्सीदति ॥ अथवा तामशेषशुभविभूतिपात्रं प्रति प्रोषितेन चेतसा शून्यीकृतो मृषाऽहमेतदेवं विकल्पयामि । किन्तु
चेतस्तां गतमिन्दुसुन्दरमुखीमायाति कस्मादये
प्रत्यङ्गं मदनोत्सवस्तरुणिमाभोगोऽद्य तस्यास्तनौ । तत्रैतज्जघनोदरस्तनमुखश्रीभिः क्रमेणातिथी
भूतं हन्त निमन्त्र्यते मुहुरिति व्यग्रं किमागच्छति ॥ यदि वा
तत्रैव सुदृशस्तस्यास्तच्चिरावस्थितिक्रमात् । वशीभूतं मनो नूनमायास्यति न तां विना ॥ तत्र हेमाण्डमहार्णवोदरं
श्रियेव दूरादवगाह्य लब्धया। उरस्थलारोपितया मृगीदृशा
कदा भविष्यामि त(स?)दाऽहमच्युतः ॥ अपि च
कदा नाम म(म) दृष्टिस्तस्याः कचिदनगदवथुदुःस्थिता विरहिणीव चरणपल्लवास्तरणे लुठिष्यति, कचित्कौतुकेन पल्लविता लतेव जडोरुदण्डशरणा प्रसरिष्यति, कचित् शृङ्गारिणी गणिकेव जघनाङ्गणे स्थास्यति, कचिन्माराकुला भुजगीव नाभिरन्ध्र गमिष्यति, कचिद्विस्मयाच गता श्रान्तेव त्रिवलिमण्डपमाश्रयिष्यति, कचिद्यौवनविडम्बिता स्वैरिणीव कुरुलान्धकारे सञ्चरिष्यति, कचिद्रागिणी सिन्धूररेखेव सीमन्तपदे यास्यति, कचित् हर्षोवेल्लनविलोला शफरीव लावण्यपयसि सर्वतो विहरिष्यति, किं च कदा नु मे हृद्यसुखसाधकस्तदालापः कर्णविवरे प्रवेक्ष्यति, कदा पर्यन्ततीक्ष्णा तूलिकेव तदृष्टिरङ्गभित्तौ भ्रमिष्यति, कदा वाऽसौ कल्याणवसतिर्निधानकलशीव करे लगिष्यति, कदा च नवरुचिस्थानं रत्नमालेव कण्ठग्रहं करिष्यतीत्यादिभिः प्रतिक्षणमुदचता तद्रूपभावनाविशेषेण वास्यमामहृदयसम्भूतैरमीभिरभीष्टदोहदशतैरात्मानमविरतं व्यापारयन् समन्मथावस्थमस्थात् ।