________________
११८
सोडलविरचिता त्या इति सप्रत्याशमुक्त्वा प्रसादितमुखी राजानमुत्थितं व्रजन्तमनुव्रज्य गौरवपरिस्खलिता तामेव भगवतीमनुजगाम ॥
राजा तु निजं निवासमासाद्य यथावसरकृत्यनिर्वर्तनादनाकुलः, हृदिस्यैस्तारावलीनयनजलबिन्दुभिरार्दीकृतकुसुमशरशिलीमुखासारभूरिव्रणः, तदुग्रवेदनयासुदूरमारब्धः, चिन्तयाञ्चकार-ननु क किल सा नाम रम्योदरी भविष्यति, सहसा सौधसद्मनि सुप्तव न दृश्यत इत्यपहारात्कारणमखिलमन्यदमुख्यमेव, यतः कथं नु तादृशं युवतिरत्नमर्थिभिनयनगोचरीभूतमुत्त्यज्यते । न च निखिलसुलक्षणानुमेयकल्याणवसतिः सा तादृशी मूर्तिरपायैरपि स्पृश्यते । तदिह विश्वान्तस्तस्याः स्थितिं कथमहं ज्ञाताऽस्मि; यत्किल स कश्चिदुपायोऽस्ति ? यो न तां गवेषयितुं पित्रा शिखण्डतिलकेन कृतो वर्तते । कि. न्तु तेनाप्यन्विष्य लब्धाऽसौ पातालवासित्वादगोचरैवास्माकमस्ति । अपि चेतारावलीद्वारेण सम्बन्धोपायस्तथाऽपि यद्यसावन्विष्य समानीता पितुर्ग्रहमागता भवेत्तदा किमप्यध्यवसितुं पार्यते । यस्यास्तु मूलत एव न ज्ञायते स्थितिस्तत्र किं कर्तुमुपपद्यते अतः कथमसावन्विष्यते । न च तावन्मनुष्यजन्मनः कस्याप्यन्यत्र नरलोकादस्ति प्रचारः । सर्वत्र परं प्रचरन्ति सुरसिद्धविद्याधरोरगयक्षराक्षसा एवेति वाक्यान्ते राक्षसपदोपादानादये ! साधु स्मृतमस्ति मे विक्रमैकसिद्धो मायाबलनामा निशाचरवीरः, तेन कृत्वा सर्वतोऽप्यन्वेषयामि तां शशिमुखीम् । किमालोचितेन भूयसेति चेतसा विनिश्चित्य कृत्वा समाधि ध्यातवान्मायाबलम् ।
__ अत्रान्तरे च द्विजाकारसौम्यया मूर्त्या देव ! यः स्मृतो देवेन सोऽहमादिश यदर्थमनुस्मृत्य बाढमनुगृहीतोऽस्मि, यदत्र किलाब्रह्माण्डशिखरात्कूर्मराजमर्याद्मदृश्यं दुर्गमं दुर्लड्डयदुर्घटमसाध्यं च किञ्चित्तदेकेनैव क्षणेन साधया. मीति कृताञ्जलिपुटः प्रणम्य मायावलः पुरो बभूव ॥
राजाऽपि रभसात्तत्र पटे चित्रगतामुदयसुन्दरीमुपदर्य भ्रातरमुना रूपेण विश्वान्तरङ्गनारत्नमुपलभ्य त्वरितमागच्छेति तं नक्तश्चरं सुभटमादिदेश । प्रतिपद्य च प्रेषणमुत्पत्य गते तस्मिन् सप्रत्याशमिव तस्यैव प्रचारशक्तिभावनया तं दिवसमत्यवाहयत् । अभावयच निराकुलावसरप्रवेशिना प्रेमरसविजृम्भितभ्रमेण सम्भ्रान्ते चेतसि दशादौस्थ्यदुःसहमवस्थानमुदयसुन्दाः ।