________________
उदयसुन्दरीकथा |
११७
कदर्थितया दृशा कुमारकेसरिणमपश्यत् । सोऽपि प्रभोरभिप्रायमासाद्य सप्रश्रयं तामवादीत् - युज्यत एव कः किल न रोदित्यभीष्टविरहेण घट्यमानहदयशल्यः प्रेमपरिलङ्घितो जन्तुः - विशेषतस्तु रुदिताध्यवसायजन्तुः स्त्रीजनः । किन्तु धीमता स्वधीभिरन्योऽयमात्मा, यत्किल विधिव्यापारपरवशे वस्तुनि किमङ्ग क्रियते सात एव यद्यथोपैति तत्तथैव सर्वम्, सर्वतत्वावबोधजुषो भवत्यास्तु किमत्रोपदिश्यते, विहाय हृदयवैधुर्यबोधकं तत्प्रेमभावनाव्यासङ्गमिदानीं तथा क्रियते यथा कुतश्चिदचिरादेव दृष्टिविषयमागच्छत्युदयसुन्दरीत्यादि कुमारकेसरिणा रुदिताकूतप्रधावितया च विश्वभूत्या च सादरमुद्रोfunsil प्रक्षाल्य विश्वभूत्यो पढौकितेन कमण्डलुवारिणा वदनकमलमपमृज्य च स्पुरद्रुणनासापुटंस्खलदक्षरं शनैरवोचत् - राजन्निह न शन्कोमि त्वदन्तिके प्रियसखीं विना क्षणमपि स्थातुम्, छिनत्ति चैष प्रतिक्षणमुदीक्ष्यमाणश्चित्रपटो मदीयं मर्मेति वदन्त्या एव तस्याः सहसैव पुनर्निरुद्ध कण्ठो हठादपतदश्रुधारासन्दोहः ।
अथ तेन तस्या उदयसुन्दरीविषयिणा प्रेमानुबन्धवैधुर्येण प्रबोधितानङ्गवल्गिक्लेशमवनीशमपि त्रपया छन्नं निःश्वसन्तमाकलय्य कालोचितं विश्वभूतिर्जगाद - वत्स ! किमेवमास्यते, न खलु सखीविप्रयोगतरलं मनः स्थिरीकर्तु - मसावद्य चित्रदर्शननवीभूतदुःखा शक्नोति, भवन्तस्तु राशयो धैर्यस्य, तन्नाम तत्किञ्चन यथोचितमासूत्र्यते, ताः काश्चन बुद्धयो व्यापार्यन्ते तानि कानि चिद्व्यवसितानि स्वीक्रियन्ते, सा काचन सहायसम्पत्तिराद्रियते, ते केचन पुमांसः सञ्चार्यन्ते, स च कश्चन महोपायश्चिन्त्यते, येनस्वर्लोकादपि दन्दशूकभुवनादासप्तसिन्धूल्लसलावारितरङ्गताडितवनादन्विष्य भूमण्डलात् । आनीता त्वरितं गृहस्थितिमतां धर्माधिकारेषु सा
तन्वङ्गी लगति क्षितीश रुचिरा मुद्रेव हस्ते तव ॥ किमु कि मर्त्यलोकावतीर्णसुपर्णवाहनाकृतेरसाध्यमिह महाराजस्य, तदुत्थीयतामितो निर्वर्त्यतामखिलं पौर्वाहिकं कृत्यम्, अतिक्रामति च वेला, तारावलि ! त्वमपि किमेवमत्यन्तमुत्ताम्यस्ययमवनीन्द्र एव स्वयमत्र प्रयत्नवानास्ते, यतो विधिरपि बिभेति कृताध्यवसायादमुष्मात् । अतः सोऽपि करिष्यत्यचिरादनुकूलीभूय तया सह युवयोः सङ्गमं समकालमिति विश्वभूतिवचनात्तारावली शकुनग्रन्थिबन्धमपि ( यी ? ) तथ्यार्थसुभगाऽस्तु भारती भगव