________________
सोडविरचिता
विप्रवेषापह्नुतस्वजातिः क्रूरकर्मा कश्चित् । अतः किं करोमि भवतु छताऽपि वचश्छलेन छलयाम्येनमिति संप्रधार्य विपाट्य च निजस्यावरणवल्कलस्यैकमञ्चलमहो महानुभाव गृहाण प्रावृणु सर्वाङ्गममुं कवचप्रायमतिप्रगाढपुढं वल्कलपञ्चैवं कृते न केवलमसावेव पुरोवर्तिविटपकुसुमे निविष्टः शिलीमुखो नियतमन्येऽपि काननेऽस्मिन्कुसुमकुटीरवासिनो मधुव्रता न ते लगिष्यन्ति । एष ते पुष्पशिलीमुखेन विद्ध्यमानहृदयस्य मया कृतः परित्रोपायः, पालितं च निजं प्रतिज्ञातं, प्रतिकृतं वचस्त्वदीयं, तथ्यवचना च जाताऽस्मि यामि संप्रतीत्येव - मभिधाय नन्वसौ न ज्ञायते कश्चिदित्थं निराकृतः कोपादन्यदेव किमप्याचरतीत्यन्तराशङ्कितेन मनसा झगित्यपसरणधिया तथैव गगनमुत्पत्य प्रच लिताऽस्मि ।
११२
असावप्येवमभिप्रेतविपरीततया निर्व्यूढमवगम्य महचः प्रतिज्ञातमपतायां मय्यकस्मादसीमविषमेण क्रोधरंहसा प्रखरफूत्कारपवनाहतो वह्निरिव ज्वलितो नितान्तम् "आ: पाषण्डिनि ! मृषापाण्डित्यलवदुर्विदग्धे पुष्पशिलीमुख इति पुष्पशरे मनोजन्मनि व्याख्यातव्ये पुष्पे शिलीमुखो भ्रमर इति लिंष्टार्थव्याख्यायाइछलेन प्रतार्य मां गन्तुमीहसे, क यासि, दृष्टाऽद्य मया, बलाद्गृह्णामि, पडिति (पीडिता ? ) च मां मन्यसे, न मन्यसे चेन्नृसिह्मखरनखरतीवाकृतिं कर्तिकामत्र तव कण्ठपीठावकर्तने कर्मणि व्यापारयामीति सनिष्ठ
स्कन्दमुचण्डया गिरा निगद्य सद्योऽपि तदेतदत्यन्तभासुरमदश्रदंष्ट्राकराल - तुण्डमुद्दण्डकर्त्तिकाकपालधरमाविर्विधाय रूपं नैशाचरमनेन गगनाध्वनैव धावितः पृष्ठे । अहमपि प्रभूतभयातुरेण चेतसा पुरः पुरोऽस्य पलायमाना कथञ्चिदेतावतीं भुवमनुप्राप्ता दृष्ट्वा चान्धकूपमधोभुवनप्रवेशधिया तस्यान्तः प्रावि - शम् | आकृष्य च हठादाक्रन्दन्ती क्रूरसत्त्वेनामुना प्रहर्तुमुपक्रान्ता । चण्डया च गिरा स्मर त्वरितमिष्टं दैवतमित्यास्कन्दिताया मम सुकृतेन कर्मणा भवन्तमानीय मृत्युमुखकन्द्रादाकृष्टाऽस्मि ।
त्वदाकारदर्शनादये साऽस्मत्स्वामिन्या जीवितं तत्र पटे केनापि शिल्पिना न जाने किञ्चिद्रा नैपुणनिरूपणाय स्वमतेः, आहोस्विद्विशेषगुणाविष्करणहेतावस्य प्रभोः, उत स्पर्डया प्रतिवादिनश्चित्रकरस्य, कृते वा कस्यापि, कृतनैपुणं लिखिता नूनमस्य स्वलावण्यलुण्डितरतीशकीर्त्तिराकृतिर्नरोत्तमस्य । एतत्कृते च तस्या विरह्व्यथादुःखमनुभवन्त्याः समुपस्थितोऽयमीदृशो दशाविपाकः । तदयमिदानीमेवं मम नयनगोचरीबभूव, सा पुनः क्व किल कथं