SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता लिनितया सुतार्तिदुःखातिदाहदग्धयेव पृथिव्या श्यामलितमास्पदं शिशुपाद्रुमस्य दृष्टवती । दृष्टवती चान्यतो गैरिकरागलोहितमृदा रक्तपातमनुमापयन्तमुत्कुपितहनुमत्करतलचपेटास्फालदलितस्य दशकण्ठसूनोरक्षस्य वधप्रवेशं क्रीडागिरेः परिसरम् । परतोऽपि तस्मान्नातिदूरे दृष्टवती तेनैवाक्षवधास्वादलुब्धेन हनुमता व्यापादितस्य सरक्षकवरुथिनीकस्य जंबुमालिनः पतितास्थिमुकुरोपलक्ष्यमाणतलं वलयमुर्वीरहाणाम् । पुरस्तात्कियतोऽपि भूविभागस्थान्तरे दृष्टवती च मारुतिनियन्त्रणोत्सृष्टपरुषपाशोरगपरिग्रहोद्गारगरलानलशिखादाहैरनुद्भिन्नतृणविटपिराजिमाजेर्भुवं शक्रजितः। प्रकृतप्रयोजनानुपलम्भखिन्ना च निर्गत्य तस्मादारामतः पदे पदे कचित्कथश्चिदुभयराघवभुजास्त्रधारावर्त. नोचलितमौलिवलयानां मेघनादप्रभृतिराक्षसभटानां चलत्पदतलाघातसमतलान्कबन्धताण्डवोद्देशानालोकितवती । दृष्टवती च कचिद्दाशरथिकरशराघातविघटितायुषः कुलाद्रिगुरुकलेवरभ्रंशाभिहत्या त्रुटितत्रिकूटगिरिशिखरशकलितशिलाखण्डदन्तुरामन्तभुवं कुम्भकर्णस्य । विशालसीमन्यन्यत्र च प्रदेशे प्रचण्डकलितकुतूहलोत्तालमिलितसुरशिविरकरविसृष्टाविरलपतितपारिजातकुसुमसमुदयामोद्वासितधरातलं वीक्षितं च रामरावणयोराहवस्थानम् । अपि च तमन्तदेशकण्ठराजाङ्गणोद्देशमालोकितवती। यस्मात् कान्त्या ज्वलन्नरुणपिङ्गलया विशाल: फालाय वर्तुलितदेहदलो हनूमान् । लङ्कापुरी कुपितदाशरथिप्रताप वहेः स्स्फुलिङ्गक इवोचलितो ददाह ॥ पर्यन्ते च प्रतिभवनमेकत्र गृहजनेभ्यः कथाभिराकर्णितमतीतस्य चकितमन्दोदरीप्रबोधनपरमुवृत्तवचसो रावणस्य सूक्तं पञ्जरनिवासिना शुकेन पठ्यमानमौषम् । माभैर्भीरु यदेष राघववटुर्देवो मुरारिः स्वयं गोलाङ्गलभटा इमे च मरुतस्ते दुर्निवाराः किल । स्वर्बन्दीहठनिग्रहोद्यतभुजादण्डो यदाऽहं तदा किं नासौ मुरजित्सुरा न किममी येनातिभीता प्रिये ॥ ततोऽपि चाले केनापि सुरेष्वसहिष्णुना राक्षसापसदेन दशाननं शोच्यमानमाकर्णितवती।
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy