________________
उदयसुन्दरीकथा ।
१०७ ममापि, किन्तु सख्याः कालिन्द्या मुखेन विदितवृत्तान्तां विधाय स्वामिनी विजयरेखामद्यतनमहः प्रच्छन्नेव किमत्र निष्पद्यत इति कचिदिहैव गमयामि, परतस्तु यथोचितमाचरिष्यामीति निश्चित्य तथाकृत्वा गत्वा च नगरनिर्गमोद्देशे खण्डमेकं चण्डीशभवनमध्यतिष्टम् । अनन्तरं च कालिन्दिकानिवेदिते तस्मित्रुत्तिष्ठति प्रवादे प्रसरदाकूतविकलेन स्वामिना शिखण्डतिलकेन निरूपितैस्स मन्तादधिगृहमधिसुरालयमधिप्रपासत्रमधिकरितुरगशालमधिकर्मविद्यादिस्थान मधिवनमधिजलाशयमितस्ततः प्रतिपथमतिसत्वरं प्रधावद्भिरन्वेषकजनैरन्ताकुलीभूतेव राजधान्यपि मुहूर्तमेकं बभूव । ततश्च
अवाद्यमानवादिनमगीतमजनारवम् ।
रङ्गस्थलमिवासन्नपात्रागममभूत्पुरम् ॥ अपि च
नादत्ते कश्चिदाहारं नेपथ्यं च नृपालये।
तया श्रियेव निर्मुक्ते परं दौस्थ्यमगाजनः ॥ अथ वृत्ते च तस्मिन्नहनि, विफलीभूय निवृत्तेष्वासन्नगवेषकेषु, तत्कालमेकीभूय मन्त्रिणामवसरोचिताभिः प्रतिपादयन्तीभिर्विचित्रसाराणि संसारविलसितानि, समर्थयन्तीभिर्व्यवसायसाध्यानि वाञ्छितानि, निदर्शयन्तीभिः प्रज्ञानुबन्धसिद्धानि प्रयोजनानि, प्रमाणं नयन्तीभिरनाप्यप्रापिकाः पुरुषकारशक्तीः, कथयन्तीभिरसाध्यसाधिका बुद्धिम्, ग्राहयन्तीभिर्दुर्दर्शदशीनि हृदयस्थैर्याणि, दिशन्तीभिरगम्यगामिनो मन्त्रान् , अविरतं हितोपशालिनीभिरुक्तिभिरुत्सार्यमाणनिर्वेदो राजा निरूप्य देवतासु पूजोपयाचितकसूचनाय कुलवृद्धान्, निवेश्य निमित्तविलोकनाय तद्विदः, नियुज्य शकुनज्ञानाय शाकुनिकान् , आदिश्य वैदेशिकप्रश्नाय परिजनम् , सञ्चार्य विरोधिघसतिषु प्रणिधीन्, प्रस्थाप्य च मित्रस्थानेषु दूतान् , अशेषतस्त्रिभुवनेऽप्यन्वेषणाय मदीयमन्तिकोपविष्टं पितरमब्रवीत्-भोः सैन्याधिनायकरत्नमौले प्रेषय तूर्ण कति नाम सन्ति सेनान्तः सकलभुवनत्रयप्रचारिणः पन्नगभटा यैः कृत्वा सर्वतोऽप्यन्विष्यतेऽस्माकमन्वयैकजीवितं कुमारीति पुत्रिकावियोगविधुरेण स्वामिनाऽभिहितः पिता मे दर्शितोत्साहनिर्भरं प्रत्युवाच
देव दुर्गमाणि गमयितुमुदनशक्तयो, दुष्प्रवेशेषु प्रवेशपटवः, पाटवपराश्च