________________
१०६
सोडलविरचिता कुलीभूतहृदया सर्वतस्तत्र सौघसमन्यधस्तादुपरि पार्श्वतोऽभ्यन्तरेषु च निरीक्ष्य गवेषयित्वा च व्याजेन मातुरप्यन्तिके निरूप्य च सम्यक्प्रचारस्थानेषु क्रीडास्पदेषु च तामपश्यन्ती ननु सर्वदैव मद्विरहिता या किल नैकमप्येवं कुत्रापि चलति साऽद्य मामपहाय क गता राजपुत्री, किमङ्ग बहिःशयनेनामुना दृष्टिपथमुपेता त्रिभुवनमनोहरेति केनाप्यपहृता नभश्चरेण, किमत्यन्तमद्भूतसमृद्धिना सौन्दर्येण सारेयमित्यात्मनो रूपप्रसिद्ध्यपगमक्षयादपह्नवार्थमपसारिता विद्याधरीभिः, किमुत यदभ्यर्थनाभयेन विहाय पातालमत्र मुक्ता तेनाय कथञ्चन ज्ञाता सती निभृतमाकृष्य नीता भुजङ्गराजेन, किम्वहो कष्टमस्मत्सुतेयमेवं ग्लानिमापन्नेति लक्ष्मीभ्रमात्सुप्तैव प्रापिता निजं निलयमम्भसा नाथेन, किमनेकशो हृदयसङ्कल्पैः कुतोऽपि तं जनमभीष्टं व्रजन्तमालोक्य मदनमोहेन पृष्ठतो लग्ना दूरीबभूव, किमु स्वप्नसंवृत्तसङ्गमव्यतिकरे कृतागसमग्रतः पलायमानं तमतिप्रणयकोपा झगित्युत्थाय प्रत्यक्षमिवाहन्तुमनुसरन्ती कुचिजगाम, किमनङ्गदहनपीडिता जलाशये क्वचिदात्मानमक्षिपत्, किन्नु समुद्विग्ना प्राणितेन कापि वृक्षशाखायामालम्ब्यमानपाशेन सत्वरमसूनुपसंहृतवती।
अपि चकिं वक्त्रद्युतिमत्सरेकरिपुणा चन्द्रेण दूरीकृता
नक्षत्रै शरम्यनिर्मलरदज्योत्स्नार्थिभिः किं हृता। यामिन्या घनकेशपाशतिमिरं प्रेम्णा समालिङ्गय किं
नीता हन्त बहिः स्थिताऽद्य सुचिरादासाद्य तुच्छोदरी ॥ अथवासा नूनमिन्दुकिरणाञ्चलबोधितेन
भस्मीकृता प्रबलमारमहानलेन । उत्क्षिप्य चाथ कुमुदाकरमारुतेन
नीता भविष्यति सुदूरमितो मृगाक्षी ॥ न तावदिह सर्वतोऽपि वीक्षिता दृश्यते, न च विकल्पनिपुणेषु लोकेषु कश्चिदपि पार्यते प्रष्टुम् , अग्रे च पित्रोः कथमहमव्यवहितप्रसादपात्रं प्रियसखी तदीया मुखं धारयामि, कथं नाद्य कुतोऽप्युदयसुन्दरी दृश्यत इतीमां वाचमुच्चारयामि, कथमेतदाकर्णनेन सपदि म्लानिमापन्नां तयोर्मुखश्रियं पश्यामि, कथं च क्षणं स्वामिन्या विजयरेखायाःपरिदेवितविदर्भिता गिरः शृण्वन्ती शक्नोमि जीवितुम्, ततस्तु या नाम गतिरुदयसुन्दाः साऽद्य