________________
१०२
सोडलविरचिता वाणीधिया शृणोति, एवमसौ मन्मथविजृम्भितेन कक्षीकृता सन्धीरणेन निमित्तवन्धेन शकुनलाभेदृढीकरणेन समन्तादुपश्रुतिभिरनुवासरं विनोद्यमाना मया मयैव कृत्त्वा चित्रोपदर्शनेन जानीथ कोऽयमिति प्रतिपान्थं प्रतिचित्रकरं प्रतिपुराणलोकमापृच्छयन्ती कियन्तं कालमस्थात् ।
अथासौ तथैव तिष्ठन्ती कदाचिदेकस्मिन्नहन्येकहेलयैव परमस्ति भगवतो हाटकेश्वरस्य पूजकः पातालगणो नाम वृद्धस्तपस्वी, तेन च तं चित्रगतं युवानमालोक्य प्रोक्ता भुजङ्गतापसेन, पुत्रि ! चैत्रिकापर्वणि देवस्य विशेषपूजाकृतेऽमत्यलोकाब्रह्मकमलान्यादाय सुदूरमतिक्रम्य भूमण्डलाभोगमागच्छता मया प्रसारिणीमशोकशाखिन छायामधिष्ठितो दृष्टोऽयमेकत्र कुत्रापि परिसरे भूधरस्य, किन्तु वृद्धत्वादकौतुकेन प्रस्तुताध्वलड्डनैकहृदयेन किमङ्ग कश्चन मृगयागतः क्षोणीपतिरुत स्वैरप्रचारिणामुत्तमो विद्याधराणामाहोस्वि. त्कुतूहलावतीर्णो मेदिनीमन्यतमः सुराणां न ज्ञातः कोऽप्यसाविति । निर्गते तस्मिन् झटित्युत्कण्ठावेशपरवशा मदनशरघातमूर्च्छितेन चेतसा ज्ञातमिव, वीक्षितमिव, समीपदेशस्थमिव, सुप्रापमिव च तं मन्यमाना तत्पुरो निश्चयमकरोत् ।
प्रकारेणाद्य केनापि मेलयत्यस्य चेत्सखी । तन्मेलयतु मां नो चेन्निवृत्ति वितेन मे ॥
इत्युक्त्वा मूर्छितेव शय्यायामपतत् । __अहं च तेन तस्या विनिश्चयेन हा हा ! किमेतदप्रतिसमाधेयमचिन्त्याध्यवसायमपौरुषारम्भमचिरोपसाध्यमध्यवसितं देव्या, तत्र किं करोमि, क गच्छामि, कमुपायमासूत्रयामि, कतमं देवमभ्यर्थयामीति मुहूर्तमतिविक्लवीभूतमात्मानमात्मनैव प्रबोध्य यत्खलु बुद्धेविषयमायाति तत्करोमि, परतस्तु विधिविधास्यतीति निश्चित्य मतिसखेन चेतसा सन्ततमुपायशतानि चिन्तयन्ती तेन सह तस्याः सङ्घटनेन कालमेकं तन्नियमनिर्वाहोपायमासाद्य निर्गत्य च तथा कृत्वा त्वरितमागतवती। आगत्य च देवि पूर्णा ते प्रतिज्ञा, मिलितासि वल्लभस्य, विलोकय पुरस्तादित्युक्ता मया; सरभसमुन्नम्य वदनाम्बुजं यावदालोकयति तावत्तदालेख्यबिम्बान्तिके योजितान्यपटलिखितं चित्रगतमात्मानमद्राक्षीत् । दृष्टे च तत्र सविलक्षमिव हसित्वा मामुक्तवती । सखि तारावलि किमेतदिति प्रोक्ताऽहमब्रुवम् । देवि केनापि प्रकारेण मेलनीयाऽहमस्येत्या