________________
१०१
उदयसुन्दरीकथा। यमाना मा तिष्ठ, भव प्रगाढहृदया नूनमेतदर्शनविनिश्चयेनेति प्रबोधिता मयाऽसौ सहेलस्मितमनीश्वराऽस्मि प्रियसखि मनोवृत्तेः, अन्वेषणे च पुनरस्य भवती प्रमाणमित्युक्त्वा दीर्घ च निःश्वस्य तूष्णीमकरोत् । ततः प्रभृति च तस्यां मनःप्रस्खलितेनेव विशृङ्खलायते मन्मथग्रहः, स्मरशरनिकरनिकृत्त्यमानेव तनूयते तनुः, रनवरतनेत्रवारिधाराभिरिवोपचीयते रणरणकरसः, स्वमसंवृत्तसकलतदर्शनादिवृत्तान्तवार्ता एव जल्पनं, चित्रपटनिरूपणमेव व्यापारः, प्रसरदाशाविनोदिन्यो मनःप्रवृत्तय एव सख्यः, तत्सङ्गमनोरथा एव लीलोपकरणानि, कुसुमशरविकारा एव क्रीडितम्, अनङ्गदहनपीडोपशान्तिसज्जितः प्रचुरजलाद्रोपलेप एव विभ्रमविलेपनम्, स्वेदहरकर्पूरविरचनोपचार एव पत्रवल्लीविलासः, सरसबिसप्रवालवलयादिविन्यास एव भूषणानि, कमलकैरवोपयोगप्रकार एव कुसुमस्रजः, कदलीदलव्यजनवायुरेवनेपथ्यम् । किञ्च
अनङ्गसन्तापदशामहापथे
समुद्यता गन्तुमनिन्दितोदरी । अतः करन्यस्तमृणालकङ्कण
च्छलेन शाङ्गं वलयं बभार सा ॥ अपि च
तस्या विशुद्धहृदयाहतिपातकेन
लूताकृमित्वमगमद्ध्वमङ्गजन्मा। शैत्यावलग्नबिससूत्रमिषादमुश्च
त्तेनैष तत्र विचरन्नवतन्तुजालम् ॥ किं बहुना
लावण्यवारिसरसि प्रसभं तदङ्गे __ वगन्ननगदवथुर्खिरदायते स्म । तेन स्फुरन्त्युपरि सन्त्रुटितावकीर्ण
___राजीविनीदलमृणालसरोरुहाणि ॥ किन्त्वेतदेवालम्बनं प्राणितस्य; यदसौ मदनरसविमोहिता त्वन्मयेन चेतसा सर्वमपि स्पर्श त्वदालिङ्गनमाशङ्कते, सर्वमपि दृश्यं त्वदाकारपरिणतं पश्यति, सर्वमपि जल्पितं त्वत्कथामयमुपक्रामति, सर्वमपि ध्वनि त्वदालाप