________________
सोडलविरचिता गुरवः, परिजनश्च किं वक्ष्यति, भवतु वा प्रमाणमिह पुरातनं कर्म, तदायत्ता हि गतयः कार्याणाम् , अपौरुषेषु विधिव्यापारेषु यद्यथा निष्पत्स्यते तत्तथैव ज्ञातव्यमिति विनिश्चित्य कालोचितमब्रुवम्
देवि ! निश्चितं नाभिकमलकौस्तुभादिलक्षणविसंवादान्नैष भगवानुपेन्द्रः, नापि च मकरेक्षुचापपरिकराभिज्ञानशून्यतया देवो मनोभवः, कश्चिदन्य एवायमवैमि देव्या मतेन, तत्खलु वृथीभूतमनयोरपि पणेन विसृज्यतामिदं किन्नरबन्धकम् । यदि च प्रत्यक्षालेख्यवार्ताभिरुपलब्धाशेषसुरसिद्धविद्याधरोरगनरेशरूपस्वरूपं हृदयमपूर्वाकारमेनमेव बोहुमाकांक्षति तदुत्थीयतामितः, सावकाशं प्रविश्यतामन्तः, तत्र च रहसि निराकुलीभूतेन चक्षुषा चेतसा च तावन्निरूपयतु देवी, यावजानाति योऽयमिति । अत्र तु झगित्यज्ञायमान एव कोऽपि कथञ्चिदागतस्तवेत्थं कम्पमानाः पृथुलपटभराक्रमणेन नलिनदलशि खरसुकुमाराः कराडलीः प्लाव्यमानं च निश्चलासनपरिग्रहश्रमजलेन प्रयासनिस्सहं शरीरमालोकयति कुलवृद्धस्तदेतद्वधारयन्नगपरिक्लेशनस्खलितं नितान्तमुत्कुप्यति सखीभ्य इति मया प्रोक्ते देवी नियतमेवमुपरचितालाप(व)क्रिमप्रपञ्चया लक्षिताऽहमनया धूर्तयेति सस्मितमतिस्तोकमपाङ्गोत्सङ्गसञ्चारतरलिताक्षिविभागमवलोकनेन हृदयं निवेद्य दत्वा च मत्करे तं पदं विसर्जितपरिजना समुत्तस्थौ।
उत्थाय च प्रविश्यान्तरध्यासिता मरालतूलकोमलं तल्पमादाय भूयोऽपि मत्करतलात्पटमवहितीकृत्य मां कृतादरमपृच्छत्-वयस्ये तारावलि ! जानासि क एष दृष्टः कुतश्चिदन्यत्र प्रत्यक्षमालेख्येन वा, त्वया हि बहुशश्चित्रेण वर्तिता दृष्टाश्च त्रिभुवनविवरवर्त्तिनो युवानः, तेषां मध्ये कश्चिदमुना रूपेण संवित्तिमेति भवत्या हृदयस्य, कथमसौ ज्ञातव्यः, कथञ्चान्वेषणीयो विसङ्कटाभोगदुविगाहेऽत्र त्रिभुवने, कथं किल दृष्टिविषयमेष्यति, कन्दर्पलुब्धकश्चायं दुरात्मा सुदृढमिमां दीपहरिणीमिव मूर्तिमुपदर्य मे झगित्याजहार कृष्णसारं लोचन. द्वन्द्वम् , अविध्यच्च प्रचलरूपं मानसम्, इदानीं कथय किमेवंगते प्रतिविधेयमिति प्रोक्ताऽहमहो न नूनमवश्यदर्शनवचसामन्यदाश्वासनममुष्यास्तत्तथैव स्थिरयामि विधुरितामनङ्गेन स्वामिनीमिति प्रत्यवोचम्
देवि ! स्थिरीभव, धीमतां किमनूह्यमन्तःकरणस्य, किमगम्यं मतीनां, किमसाध्यमध्यवसायस्य च, किन्तु त्वमेवमशरीरिणाऽपि मन्मथहतकेनाभिभू