________________
उदयसुन्दरीकथा । तत्र चालोकनेन झगिति शृङ्गारपल्लवलतायां तस्यामनङ्गधनुर्लतोड्डीनः पपात विसरः शिलीमुखानां, शिलीमुखपटलपातादिव सर्वाङ्गमुत्पन्नवान्कम्पः, प्रकम्पचलनादिव व्यगलदाजलबिन्दुकायः कुसुमसन्दोहः, कुसुमभरनिर्भरभ्रंशादिवाजृम्भत रोमाञ्चकेसरसखः स्वेदोदकच्छद्मा मधुरसप्लवः । क्षणेन च तस्याः सरभसं हृदि प्रविशतो रागस्य दत्तमागेतया झगित्यपसृतेव पुरस्तादाकम्प्रकुचशिखरतरलिता बभूव तिरश्चीना हारयष्टिः, झगित्येकहेलयैव प्रविष्टं रागमालोक्य मानसात्परपुरुषसामीप्यवेषिणी कुलपालिकेव निःसृत्य गतवती व्रीडा, उज्झितं शून्यमास्पदमिति पृष्ठतो रक्षक इवाध्यतिष्ठदुन्मादः, प्रविश्यान्तर्मनसि सन्धुक्षतो मान्मथं वह्निमुन्मादस्य परुषफूत्कारपवनदण्डा इव नवोष्णप्रसूतयः सततं निःसर्तुमारभन्त निश्वासाः, प्रचण्डद्वथुदावानलज्वालिनि सरलनिश्वासारण्यसङ्कटे मुखकमलपरिमलोपलोभाद्न्धीभूय निपतितं प्लुष्यमाणमलीनां दूरमाचक्रन्द वृन्दम्, इन्दिन्दिराक्रन्दकोलाहलनिवेदितेन मदनहुतभुजा लग्नप्रदीपनकादन्तःकरणमन्दिरादाहभीतमिव निर्जगाम धैर्यम्, धैर्यानुमार्गमसमरोमाञ्चसूचिकाग्रभेदैरुद्भूतगुरुव्यथानीव स्वेवारिप्लुतानि प्रणश्य ययुः कपोलयोः पत्रहंसमिथुनानि । किञ्च
मनस्तदीयं पुरुषापरागव्रतेन सन्त्यक्तमिवाङ्गजन्मा ।
हर्षाज्झगित्युज्झितलिङ्गभेदभीतिर्निशातैरिषुभिर्बिभेद ॥ ततश्व
तद्दृष्टिरिष्टार्थदरिद्रतोरुक्षुधेव रङ्कत्वमनुप्रयाता ।
आस्वादयन्ती सुचिरावाप्य रूपामृतं तत्र न तृप्तिमेति ॥ अथाहमपि तथाऽवलोक्य ताम्, अहो चिरादेतदालेख्यस्थानमासाद्य लब्धवानमुष्याश्चेतसि लक्ष्यमिक्षुकोदण्डवाही मकरकेतुः, किन्तु त्रिदिवसद्मनामवनिवासिनामुरगलोकवर्त्तिनां वा यूनामन्यतमः कोऽयमित्यजानन्ती निरन्वयलाभशालिनोऽस्य चित्रस्यापि दर्शनेन यदेवमङ्गीकृता मन्मथेन, प्लाविता शृङ्गाररसेन, विधुरिता हृदयेन, समुज्झिता सुदूरमिन्द्रियैः,अवष्टब्धा प्रसभमवशतया, वशीकृता सपदि विस्मयेन, समालिङ्गिता गाढमुत्कण्ठया, तन्नजाने कथमियं भविष्यति, कियचिरमस्मान्क्लेशयिष्यति, कीदृशी परिणतिरिह सम्पत्स्यते, किमनुचिन्तयिष्यति माता, कीदृशंकृत्वा मंस्यते जनकः, किमालोचयिष्यन्ति