________________
९४
सोडलविरचिता खलालयाऽपि स्पृष्टः परो विपद्यते, परार्थेषु निस्पृहास्त एव ये हि लोकैरात्मनो निधीनां रक्षाधिकारिणः कृताः, वृत्तावदैन्यं च किञ्चिदाश्चर्यकारि येषां योगिनामिव वायु(रा)हारः, स्थेम पुनस्तेष्वेव येनातिवृद्धोऽपि शेषः शिरसा कुसुमकलिकावल्लीलयैव सगिरितरुषण्डसागरमहाभरामुर्वी बभार । किञ्च
नानापथा सुगुणभगिषु किं किलैक___मावर्ण्यते फणभृतामपरैव सृष्टिः । येषां शिरस्युदितमस्थिलवैकमात्रं
व्यापार्यते जगति रत्नमिति प्रवीणैः ॥ यत्र च विप्राकारपरिणताय हरये प्रदत्ताशेषकाश्यपीसुकृतफलादिव निवासमासादयामास राजा दनुजेन्द्रशेखराभरणं बलिः । अपि च यत्र कथञ्चन वसुन्धरोद्धरणप्रसङ्गावाप्सप्रवेशो विशेषरम्यतोपलोभित इवाद्यापि न खलु निगन्तुमीहते भगवान् वराहजन्मा जनार्दनः, कूर्मावतारश्च पुनर्वरमवस्थितिविनिन्ये पङ्काम्भसि निमज्यालुठन्नास्ते तथाऽप्युत्कृष्टविष्टपालोकनकुतूहलीव नान्यत्र भुवनेषु स्थितये बध्नाति मानसीं वृत्तिम् । अथवादृष्टं यन्न कुतोऽपि यच्च तपसा तीव्रण संप्राप्यते
दुष्पापं द्युपतेश्च यद्यदपि च प्राप्यं प्रसन्ने हरौ। तन्निःशेषमशेषसृष्टिविषयं सारं च रम्येषु यः .
सूते वस्तु किमौरगस्य जगतस्तस्यान्यदावण्यते ॥ तस्मिन्नशेषसुखसम्पदां प्रसवनपटीयसि पाताललोके रङ्गावलीवलयमिव प्राङ्गणभुवः, चित्रमिव भित्तेः, आभरणमिव योषितः, कुसुममिव लतायाः, त्रिभुवनश्रियः शोभाविष्कारकारणमस्ति नगरमिन्दीवरं नाम ।
किं तस्य स्तुतिविस्तरेण गुरुणा यस्मिन्पुरे यत्फलं - संसारस्य भवन्ति ता मृगदृशो यासां मुखप्राङ्गणे । दैवादापतिते जगत्यशशिनि स्वर्भानुरिन्दुभ्रमा
दामोदासवधावितालिवलयच्छद्मा परिभ्राम्यति ॥ तत्रास्ति गरीयसा कलापेन सम्पदामधष्ठितः प्रतिष्ठितो महसि वासवस्य, वशीकृतारिशौण्डीरनिकरो हर इवाग्नेयसायकधरः प्रतापेन, हरिरिवापूरितशङ्खस्वनो यशसा, विरिश्चिरिव दर्शितशापानुग्रहशक्तिराज्ञया, शिरसि विस्फारिणा विनी