SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता मादितः पृच्छामीति चेतसि विनिश्चित्य मानयन् सदैव देवतावर्गमभ्यग्रवत्तिनीमधिष्ठात्री च तस्याः श्मशानभुवो भगवतीं भीषणेत्यभिधानवती दुर्गामग्रतो भूत्वा फालाग्रमिलितकरसम्पुटाञ्जलिः स्तुत्या प्रणनाम । विद्युत्पुञ्जोग्रनेत्रं पृथुचपलललजिह्वमुर्तगलं सक्कान्तोद्ग्रदंष्ट्राप्रकटमसरलस्थूलपिङ्गोर्ध्वकेशम् । वक्त्रं कल्पान्तकालप्रबलघनघटाघोषघोराट्टहासं चण्ड्याः स्वर्गारिवर्गग्रसनरसकषद्दन्तदण्डं नमामि ॥ कृतप्रणामश्च देव्याश्चलत गम्यते यथोचितमाश्रमस्थानमित्यन्तरत्यन्तशुद्ध्या सूक्त्या प्रवर्तितचेतसं तामग्रतः कृत्वा वृत्तान्तबोधेच्छुः कुतूहला. दाहितगतिवेगः क्षणेनैव निर्जगाम तस्मादमङ्गलभुवः श्मशानात् । नगरगर्भमासाद्य च मनोविश्रम्भवसतेराप्ताया विश्वभूतिरितिवृद्धतपसस्तपस्विन्या मठं जगाम । तस्मिन्मध्यनिशामतीत्य सहसैवायातमेकाकिनं सा राजानमुदीक्ष्य तच्च वनितापात्रं तपोलङ्कतम् । कस्मादेष किमत्र भूपतिलकः का तापसी चेयमि त्येवं विस्मयमागता भगवती चक्रे तयोः स्वागतम् ॥ नृपतिरथ वितीर्णातिथ्यया विश्वभूत्या विजनरजनिचयों तापसी चानुपृष्टः । अकथयसिलाभं राक्षसादक्षिताऽसाविति च निजकथां(तां) सि(ध)सारस्वतश्रीः॥ इति कायस्थकविसोडलविनिर्मितायामुदयसुन्दरीकथायां तापसीरक्षणं नाम सारस्वतश्रीपदाह्वः पञ्चम उच्छासकः ।। षष्ठ उच्छासः। ततस्तथैव च क्रमेण परिणतेऽपि मध्यरात्रापवर्तनक्षणे कौतुकभरादुत्सुकोऽसौ दृशैव भगवत्या विश्वभूतेरनुमतिमादाय मेदिनीप्रभुरभिमुखीकृतया स्वयमभ्यागतोपहारपङ्कजदलमालयेव विशालललितया दृशा सम्भाव्यमानमहसं तामभिनवागतां तापसीमुवाच-नन्वसामान्यशीले ! साधुपथप्रचारिणि ! विशदाशये ! कथय का त्वम् , कस्य कुलं विष्णुवक्षस्थलमिव कौस्तुभं वृत्तविमला
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy