________________
६४
रामायणम् ।
द्वितीयापीत्यभाषिष्ट वयस्ये मन्दधीरसि । स्तोकमप्यम्टतं श्रेयो भारोपि न विषस्य तु ॥ २८ ॥ इत्यालापं तयोः श्रुत्वा चिन्तयत्पवनंजयः । अस्याः प्रियमिदं ननं तेन नैषा निषेधति ॥२६॥ इति क्रुद्धोऽसिमाकृष्याविरासीत्पानज्ञ्जयः । निशाचर इवाकस्मादन्धकारात्समुत्थितः ॥ ३० ॥ विद्यात्प्रभोहृदि ययोर्द्वयोरपि तयोः शिरः । छिननीतिवदन् रोषाञ्चचाल पवनञ्जयः ॥३१॥ बाहुदण्डे धारयंस्तमिति प्रहसितोवदन् । सापराधाप्यवध्यैव स्त्रो गौरिव नवेत्सि किन् ॥३२॥ किं पुनर्निरपराधैव इयमज्ञ्जनमुन्दरीं । तवापवादिनी नैषा निषेधति पुनर्द्धिताम् ॥ ३३ ॥ इति प्रहसितानाञ्चै र्निषिद्धः पवनञ्जयः । उत्पत्यागात्खमावासज्जाग्रत्तस्थौ च दुःखितः ॥३४॥ प्रातश्चोचे प्रहसितं सखे किमनयोढया । मृत्योपि हि विरक्तः स्यादापदे किं पुनः प्रिया ॥ ३५ ॥ तदेहि यावः खपुरीमूरीकृत्य परं रयम् । किं खादुनापि भोज्येन रोचते न यदात्मने ॥ ३६ ॥ इत्युदीर्य्योच्चकैर्य्या वञ्चचाल पवनञ्जयः । धृत्वा तत्प्रहसितस्तं साम्मैवमबोधयत् ॥३७॥