________________
रामायणम् ।
निखिलनगरनारीजेननोलोत्पलानाम् । प्रमदविभवदानाद्यामिनोजानिक ल्यः ॥ ५५॥ इत्याचार्य श्री हेमचन्द्र विरचिते विषष्ठिमिलाका पुरुषचरिते महाकाव्ये सप्तमे पथिरावणदिग्विजयो नाम द्वितीयः सर्गः ॥ २ ॥
अथ तृतीयः सर्गः । अथेहवैताद्व्यगिरावादित्यपुरपत्तने । प्रल्हादोनाम राजाभत्के तु मत्यस्य तु प्रिया ॥ १ ॥ तयोर्बभूव तनयोनामतः पवनंजयः ।
ܬ
जयी पवनवस्थाम्ना गगने गमने न च ॥२॥ इतश्च भरतेाऽत्रैवोपार्श्ववन्दति पर्व्वते । विद्याधरेन्द्रो महेन्द्र । महेन्द्रे नगरेऽभवत् ॥३॥ पत्न्या हृदयमुन्दर्य्यातस्य चाञ्ज्ञ्जन सुन्दरी । अरिन्दमादिपुत्राणां शतस्योपर्यभूत्सुता ॥४॥ उद्योवनाया स्तस्याञ्च वरं चिन्तयतः पितुः । शशंसुर्मन्त्रिणो विद्याधरयूनः सहस्रशः ॥५॥ महेन्द्रस्याज्ञयामात्यास्तद्रूपाणि पृथक् पृथक् । यथावदालेख्यपट्टेष्वानाय्य समदर्शयत् ॥६॥ तब विद्याधराधीश हरिनाभाङ्गज न्मनः । रूपविद्युत्प्रभाख्यस्य सुमनः कुक्षिजन्मनः ॥७॥