________________
रामायणम् ।
८५ स्नेह तः कातरोमाभूः सहजं धैर्य माथय ।। खसूनाः सर्वदादृष्टं किं नवेत्मि पराक्रमम ॥६५॥ तस्यैवं वदतेोऽध्येत्य नगरं रथनपुरम ।। चमूभिर्वेष्टयामास दुईरोदशकन्वरः ॥६६॥ पूर्वमेव दशास्येन प्रहितोमाहितौजसा । अथ दूतोऽभ्यपेत्येन्द्रमित्यवाच ससौष्ठवः ॥१७॥ ये केचिदिह राजानो विद्यादेार्वीयंदर्पिणः । तैरुपेत्योपायनाद्यैः पूजितोदशकन्धरः ॥१८॥ दशकण्टस्य विस्म त्या भवतश्चार्जवाद यम । इयान् कालो ययौ तस्मिन् भक्तिकालस्तवाधना ॥६६ भक्तिं दर्शय तत्तस्मिन् शक्तिञ्चादर्शयाधुना । भक्तिशक्तिविहीनश्चेदेवमेव विनंक्ष्यसि ॥१०॥ इन्द्रोपि निजगादेवं वराकैः प जितो न पैः । । रावणस्तदयं मत्तः पजां मत्तोपि वाञ्छति ॥१॥ यथा तथा गतः कालो रावणस्य मुखाय सः। कालरूपस्त्वयं कालस्तस्येदानीमुपस्थितः ॥२॥ गत्वा स्वस्वामिनाभक्ति शक्ति वा मयि दर्शय । सभक्तिशक्तिहीनचे देवमेव विनंच्यति ॥३॥ दूतेनागत्य विज्ञप्तोरावणः कोपदारुणः । समनयन्महोत्साहः समं सकलसैनिकैः ॥४॥