________________
रामायणम |
ܬ
८१
तेथेत्य कुम्मणद्यास्तन्द्रष्टुमपि नाशकन् । ग्रीष्ममध्याह्न मागमिव सुप्तोत्थितानराः ॥५५॥ दुर्लङ्घयत दुर्लङ्घयपुरमित्यपसृत्यते ।
a
भग्नोत्साहाः कथमपि दशास्याय व्यजिज्ञपन् ॥५६॥ स्वयं दशाम्य स्तत्रागात्तं वप्रं प्रेच्त्य तादृशम् । अपश्यं स्तद् ग्रहेापायं चिरं दध्यौ सबान्धवः ॥५७॥ अनुरक्ता दशास्यस्य नलकूवर पत्न्यथ । प्रैषीह्तीमुपरम्भां सा तमेत्यैवमब्रवीत् ॥५८॥ जयश्रीरिव मूर्त्तापि रम्भा त्वयि रिरंसते । सा त्वगणैर्हतमनास्तत्र मूर्त्तेव तिष्ठति ॥५६॥ इमाञ्च विद्यामाशालोम सिवप्रस्य रक्षिकाम् । करिष्यति तवायत्तामात्मानमिव मानद ॥ ६० ॥ ग्रहीष्यसि तया चेंदं पुरं सनलकूबरम् । सेत्स्यत्यत्र च ते चक्रं दैवं नाम्रा सुदर्शनम् ॥ ६२ ॥ समहासं दशास्येन वीचितोऽय विभीषणः । एवमस्त्विति भाषित्वा दूतिकां विससर्ज ताम् ॥ ६२ ॥ अथ क्रुडो दयग्रीव अवभाषे विभीषणम् । अरे कुलविरुद्धं किं प्रतिपन्नमिदं त्वया ॥ ६३॥ हृदयं जातु चिद्दत्तं परस्त्रीणां न कैरपि । अस्मत्कुलभवैर्मृढ रणे दृष्टं द्विषामिव ॥६४॥
S
११