SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ रामायणम् । प्रभावोपि भवं माग्वा चिरं विश्वावसोरभूत् । ज्योतिर्मत्यां श्रीकुमार इतिनाम्ना तनूरुहः ॥४५॥ सनिदानं तपः कृत्वा कालयोगाद्दिपद्य च । अभवञ्चमरेन्द्रोहं पूर्वजन्मसुहृत्तव ॥४६॥ इत्याख्याय समेदत्तं शूलमेतदुपेत्य यत 1 आयोजनद्विसहस्राः कृत्वा कार्य्यं निवर्त्तते ॥४७॥ इति श्रुत्वा दशग्रीवोभक्ति शक्ति विराजने । ददौ मधुकुमाराय कन्यां नाम्ना मनोरमाम् ॥४८॥ अथ लङ्काप्रयाणाहाद्वर्षेष्वष्टादशखगात् । खौ पाण्ड के चैत्यान्यर्च्चितुं दशकन्धरः ॥४६॥ सोत्कष्टस्ततत्र चैत्यानि दशकण्ठोभ्यवन्दत् । ऋड्या महत्या सङ्गीत पूजोत्सवपुरःसरम् ॥५० दुर्लङ्घनपुरेऽथप्राक् दिक्योलं नलकूबरम् । ग्रहीतुं कम्भकर्णाद्या दशग्रीवाज्ञया ययुः ॥५१॥ आमाली विद्ययावह्नि मयं वप्रमथ त्र्यधात् । खपुरे योजनशतप्रमाणं नलक बरः ॥ ५२ ॥ ज्हताशनमयान्येव चक्रे यन्त्राणि तत्र च । प्रदीपनमिव व्योम्नि क ुर्वाणानि शिखेोत्करैः ॥५३॥ तं च वप्रमव ष्टभ्याऽवतस्थे नलक ूबरः । . भटैः परिवृतः कोपाज्जलन वह्निकुमारवत् ॥५४॥ ·
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy