________________
रामायणम् ।
शब्रुवाजरहं नाम्ना माहिष्मत्यां नृपोऽभवम् । भववासादिते। भीतः शार्दूलः पावकादिव ॥ ४५ ॥ सहस्रकिरणे राज्य मारोप्य निजनन्दने । मोक्षध्वास्यन्दनप्राय महं व्रतमशिश्रियम् ॥४६॥ इत्यर्थोक्ते दशग्रीवा नमद्ग्रीवो ब्रवीदिति । किमसौ पूज्यपादाना मङ्गजन्मामहाभुजः ॥३७॥ ओमित्युक्ते मुनीन्द्रेण निजगाद दशाननः । दिग्जयाय क्रमेणा हमिहागच्छं नदीतटे ॥ ४८ ॥ दत्तावासस्तटेऽमुष्मिन् जिनाञ्च विकचाम्बुजैः । अर्चित्वा यावदेकाग्रमानसस्त न्मयोभवम् ॥४६॥ अमुना तावदुन्मुक्तैर्निजस्नानम तोमसैः 1 वारिभिः प्लाविता पूजा तेनाकार्षमिदं कुत्रा ॥५०॥ अज्ञानाद सुनाप्येतत् कृत' मन्ये महात्मना । त्वत्सूनुरेषः किंकुर्य्याददाशातनां क्वचित् ॥ ५१ ॥ एवमुक्वा सहस्त्रांशुं नत्वाऽनैषोद्दशाननः । लज्जानम्बाननः सोऽपि ननाम पितरं मुनिम ॥५२॥ रावणस्तंभाखैवं माता मेत्वमतः परम् । तवैवायं ममाप्येष शतबाज्जर्मुनिः पिता ॥५३॥ गच्छ शाधि निजं राज्यं गृहाणान्यामपि क्षितिम् । अस्माकं हि त्रयाणां त्व' चतुर्थोऽस्यंशभाक् श्रियः॥ ५४॥