________________
५४
रामायणम् ।
ू
अल्पायुः साहसगतिर्दीर्घायुश्च कपीश्वरः । इति नैमित्तिकेनोक्ते सुग्रीवाय ददौ स ताम् ॥८५॥ अभिलाषविप्रलम्भात् साहस.पि दिने दिने । अङ्गारचुम्बित इव न प्राप कापिनिष्टतिम् ॥८६॥ तारायां रममाणस्य सुग्रीवस्य बभूवतुः । द्वावङ्गदयदान्दाङ्गजौ दिग्गजोर्जितौ ॥८॥ सचापि साहसगति स्तारायामनुरागवान् । मन्मथोन्मथ्यमानात्मा चिन्तयामासिवानिदम् ॥८८॥ चुम्बिष्यामि कदा तस्या म्टगशावक चक्षुषः । पक्कविम्बाधरदलच्छदनं वदनाम्बुजम् ॥८६॥ कदास्प्रक्ष्याम्यहं तस्या कुचकुम्भा खपाणिना । कदाच तौ करिष्यामि गाढालिङ्गनवामनौ ॥६॥ बलेनापि छलेनापि तां हर्त्तास्मीति चिन्तयन् । सस्मार से मुखीं विद्यां रूपस्य परिवर्त्तिनीम् ॥६१॥ गत्वा च क्षुद्र हिमवत् गिरौ स्थित्वा गुहान्तरे । तं साधयितुमारेमे चक्राङ्कनृपनन्दनः ॥६२॥ इतश्च पुर्य्यालङ्काया दिग्यात्वायै दशाननः । विकर्त्तनः पूर्व्वशैलतटादिव विनिर्ययौ ॥६३॥ विद्याधरान्नरेन्द्रांश्च द्वीपान्तरनिवासिनः । वशीकृत्य स पातालं लङ्कां नाम पुरों ययौ ॥६४॥