________________
रामायणम् ।
·
अतिभङ्गुरदेार्दण्डो मुखेन रुधिरं वमन् । अरावीद्रावयन्नुर्वी रावण स्तेन सेा भवेत् ॥ ५५॥ तस्य चारटनं दोनं श्रुत्वा वाली कृपापरः । तं मुमेाचाशु तत्कर्मशिक्षामात्राय न कुत्रात् ॥५६॥ निःश्रित्य दशकण्ठोऽथ निःप्रतापोऽनुतापवान् । उपेत्यवालिनं नत्वा व्याजहारेत्युदृञ्जलिः ॥ ५७ ॥ भूयोऽपराधानां कर्ताऽहं त्वयि चैमिनिस्त्रपः । उत्कृपस्त्वञ्च सोढ़ासि महात्मन् शक्तिमानपि ॥ ५८ ॥ मन्ये मयि कृपां कुर्व्वन्नव प्रागत्य नः प्रभो । नत्व सामर्थप्रतस्तत्तु नाज्ञासिषमहं पुरा ॥५६॥ अज्ञानान्नाथ तेनेयं खशक्तिस्तोलिता मया । अद्रिपर्व्यसने यत्नं कलमेनेव कुता ॥६॥ ज्ञातमन्तरमद्येदं भवतश्चात्मनापि च । शैलवल्मीकयोर्या हग्य । दृग्गरुडनागयोः ॥ ६१ ॥ दत्ताः प्राणास्त्वया खामिन मृत्युकोटिं गतस्य मे । अपकारिणि यस्येयं मतिस्ता नमोस्तुते ॥ ६२ ॥ दृढ़भक्त्येति भाषित्वा चमयित्वा च वालिनम् । तिखः प्रदक्षिणीकृत्य नमश्चक्रे दगाननः ॥ ६३॥ तादृग्माहात्मप्रमुदिताः साधुसाध्विति भाषिणः । उपरिष्ठाद्वालमुनेः पुष्पवृष्टिं व्यधुः सुराः ॥६४॥
S
५१