SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ रामायणम। अवान्तरे च वैताव्यस्योत्तरश्रेणि वर्तिनः ।। हरिविक्रमराजस्य कुमारो जयभूषणः ॥६॥ जढ़ाऽष्टशतनारीकः पत्नी किरणमण्डलाम् । सुप्तां हेमसुखाख्येन समं मातुल सूनुना ॥१८॥ दृष्ट्वा निर्वासयामास तदैव प्राबजत् खयम् । सापि मत्वा समजनि विद्यदंष्ट्रेति राक्षसी ॥६६॥ अयोध्या बहिरम्ये त्य स तदा जयभूषणः । तस्थौ प्रतिमया विद्यद्दंष्ट्रा च तमुपाद्रवत् ॥१०॥ केवलं तस्य चारपेदे तदुत्मव विवित्सया । तटानीञ्च समाजग्मुः सुनासोरादयः सुराः ॥१॥ सीतायाः प्रेक्ष्य तददेवाः शक्रमेवं व्यजिज्ञपन् । लोकाऽलीकापवादेन सीता व ह्रा प्रवेक्ष्यति ॥२॥ पत्न्यनीकपतिं सीतासान्निध्यावादिशद्धरिः । तस्यर्षेः केवलज्ञानोत्सवं तु विदधे खयम् ॥३॥ रामाज्ञयाथ मतका स्तं गत्तं चन्द नाञ्चितम् । परितो ज्वालथामासु दुःप्रेक्ष्यञ्चक्षुषामपि ॥४॥ ज्वालाकरालन्त प्रेक्ष्य रामोदध्याविदं हृदि । अहो अत्यन्त विषमं ममेदं किमुपस्थितम् ॥५॥ इयं महासती ननं निःशङ्काऽग्नौ प्रवेक्ष्यति । दैवस्थेत्र हि दिव्यस्य प्रायेण विषमा गतिः ॥६॥ . ४५
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy