________________
३४८
रामायणम् ।
तह्न यो लक्ष्मणोऽमुञ्चत्कृत्वा तद्वत्प्रदक्षिणाम् । पुनस्तत्पाणिमेवागाच्छालां मग्न इव द्विपः ॥४७॥ चिन्तयामासतुश्चैवं विषम्मौ रामलक्षाणो । किं शोरिशार्ङ्गिणावेतौ नत्वा वामिह भारते ॥ ४८ ॥ अत्रान्तरे नारदर्षिः सिद्धार्थेन सहैव हि । तत्रोपेत्यावोचदेवं खिन्नं रामं सलक्ष्मणम् ॥४६॥ हर्षस्थाने विषादेायं युवयोः किं रघूद्दहौ । पुत्रात्पराजयो वंशोद्य तनयेन न कस्य हि ॥ ५०॥ सीता कुचिभवौ पुत्रौ तवेमौ लवणांकुशौ । त्वान्द्रष्टुमागतावत्र युद्धव्याजेन न त्वरी ॥ ५१ ॥ अभिज्ञानमिदन्तेऽव यच्चक्र प्रबभव न । मुषाऽभूद्भारतं चक्र' पुराबाजबलावपि ॥ ५५ ॥ त्यागात्प्रभृति सोताया वृत्तान्तं नारदोऽखिलम् । पुत्र युद्धान्तमाचख्यौ विश्वविस्मयदायकम् ॥ ५३॥ रामोपि विस्मयव्रीडा खेदहर्षसमाकुलः । मुमूर्च्छ संज्ञां लेभे च संसिक्तञ्चन्दनाम्भसा ॥ ५४ ॥ लक्ष्मणेन सहोदथुः पुत्रवात्सल्य पूरितः । जगाम रामो लवणां कुशयेोतमन्तिके ॥५५॥ अवतीर्य्य रथात्सद्यो विनीतौ लवणांकुशौ । पादेषु पद्मसौमिच्यो स्त्यक्तास्तौ पेततुः क्रमात् ॥ ५६ ॥