SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३४७ रामायणम् । सदा यचैरचितानां विपक्षक्षयकारिणाम् । तेषामेव ममाखाणा मवस्था के यमागता ॥३७॥ यथापराजितास्वनो रभून्मोघास्त्रता तदा । तथैव लक्ष्मणखापि मदनांकुशयोधिनः ॥ ३८ ॥ अत्नान्तरे च सौमित्रि रङ्कशेनोरसीषुणा । ताडितः कुलिशेनेव मूर्च्छिते। न्यपतद्रथे ॥ ३६ ॥ _सौमित्रिमूर्च्छाविधुरो विराधः स्यन्दनं रणात् । अचालयत्प्रत्ययोध्यां संज्ञां लेभेऽथ लक्ष्मणः ॥ ४० ॥ साक्षेपं लक्ष्मणश्चोचे किं विराधाकृथानयम् । रामधातुर्दशरथस्य वनोरनुचितं ह्यदः ॥४१॥ तच्छ्रीघ्र ं नय तत्त्रैव रथं यत्र स मे द्विषन् । एष च्छिद्मि तच्छ्रीर्षं चक्रेणा मोघरंहसा ॥४२ ॥ एवमुक्तो विराधोऽथा नैषीत्प्रत्यंकुशं रथम् । तिष्ठतिष्ठेति जल्पंख चक्र जग्राह लक्ष्मणः ॥४३॥ भ्रमदर्कममकरं ममयित्वा च तद्दिवि । क्र ुद्धो मुमोच सौमित्रि कुशायास्वलद्रयम् ॥४४॥ आपतत्ताडयामासानै कशेोऽस्त्रै स्तदङ्कशः । सर्वात्मना लवणोपि न तु तत्प्रत्यहन्यत ॥ ४५ ॥ वेगेनापत्प तञ्चक्र कुशाय प्रदक्षिणाम् । कृत्वा लक्ष्मणहस्तेऽगा त्पुनर्नोड वाण्डजः ॥४६॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy